SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Mode जैनेन्द्रव्याकरणम् । उद ईहे ॥ १६ ॥ उत्पूर्वात्तिष्ठतेरीहार्थे वर्तमानादो भवति । गेहे उत्तिष्ठते । धर्म उत्तिष्ठते । घटत इत्यर्थः । ईह इति किम् । अस्माद् ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः । ईह इति ईहतेः पर्यायग्रहणात् गम्यमानायामीहायां न भवति । आसनादुत्तिष्ठति । उत्तिष्ठति सेना । अस्माद् ग्रामाद्दिष्टिः (?) पञ्च पुरुषा उत्तिष्ठन्ति ॥ उपान्मन्त्रकरणे ॥ २० ॥ उपपूर्वात्तिष्ठतेमन्त्रकरणे दो भवति । जगत्योपतिष्ठते । तृष्टुभापतिष्ठते । मन्त्रकरण इति किम । भती रमुपतिष्ठति भायी यौवनेन । उपादिति योगविभागः । तेन देवपूजासङ्गतिकरणमित्रकरणपथिषु दो भवति । देवपूजायाम् । सीमन्धरमुपतिष्ठते । सङ्गतिकरणे । रथिकानुपतिष्ठते । मित्रकरणे । महामात्रानुपतिष्ठते । सङ्गतिकरणमुपश्लेषः । मित्रकरणं मानसः सम्बन्धः। पथि। अयं पन्थाः स्रघ्नमुपतिष्ठते ॥ वा लिप्सायामिति वक्तव्यम् ॥ * ॥ भिक्षुको दातृकुलमुपतिष्ठते । उपतिष्ठति वा ॥ धेः ॥ २१ ॥ अकर्मको धिरिति । उपपूर्वात्तिष्ठतेर्धी भवति । यावद्भुक्तमुपतिष्ठते । यावदोदनमुपतिष्ठते । भोजने भोजने ओदने ओदने उदीक्षत इत्यर्थः । धेरिति किम । स्वामिनमुपतिष्ठति ॥ व्युत्तपः ॥ २२ ॥ धेरिति वर्तते। वि उदित्येवम्पूर्वात्तपतेर्डेो भवति । man madmaan - -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy