________________
महावृत्तिसहितम् । बहुवचननिर्देशो हसादिसंग्रहणार्थः । व्यतिहसन्ति । व्यतिजल्पति । व्यतिपठन्ति । व्यतिकथयन्ति । हृवह्योरप्रतिषेधो वक्तव्यः । सम्प्रहरन्ते राजानः । व्यतिवहन्ते नधः । गतिहिंसयोः प्रतिषेधो गतिहिंसाहेता न भवति । व्यतिगमयन्ते । व्यतिभेदयन्ते ।
परस्परान्योन्येतरेतरे ॥१०॥ परस्पर अन्योन्य इतरेतर इत्येतेषु प्रयुक्तेषु साथै दो न भवति। परस्परस्य व्यतिलुनन्ति । अन्योन्यस्य व्यतिलुनन्ति । इतरेतरस्य व्यतिलुनन्ति । व्यतिभ्यां घोतितेऽपि कर्मव्यतिहारे परस्परादिपदप्रयोगो द्वावपूपी भचयेति यथा । परस्परादिशब्दानां कथं सिद्धिः । द्वित्वप्रकरणे कर्मव्यतिहारे सर्वनानो हित्वम् । सवच बहुलमिति वक्ष्यति ॥
निविशः ॥ ११ ॥ नि इति स्वरूपस्य ग्रहणं ननिसज्ञाया। निपूर्वोद्विशो दो भवति । निविशते । निविशेते। निविशन्ते । लावस्थायामडागमः । तद्भक्तो न व्यवधायकः । न्यविशत । ममिति मंप्राप्तम् । सनिर्देशः समर्थार्थः । सामर्थ्यञ्च धार्गिना। तेनेह न भवति । मधुनि विशन्ति भ्रमराः अनर्थकस्वाहा ॥
परिव्यवक्रियः ॥ १२ ॥ परि वि अब इत्येवंपूर्वात् क्रीणातेी भवति । परिक्रीणीते । विक्रीणीते। अवक्रीणीते । अफाप्ये फले विधिरयम् । अनर्थकत्वादिह न भवति उपरि क्रीणाति । गवि क्रीणाति । अपचाव क्रीणीवः। क्री इति अनुकर