SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ammernmenEResmammemomsonamaina महावृत्तिसहितम् । मिति अनन्तरणं बाधते न उग्रवाहित क्षु दाभ्योवेति ढणं पुलिकायाः पौलिकेरः । कुवृष्यन्धकवृष्णेः ॥ १०३ ॥ कुरवः अन्धकाः वृष्णयश्च क्षत्रियोवंशाख्या. ऋषयश्वेह ग्राम्या मठपतया वशिष्टाद्या गृह्यन्ते । महर्षी णामहिंसादिवतोपपन्नाना अपस्यापत्यवत्संबंधो नास्ति । कुरु ऋषिअन्धकवृष्णिवाचिभ्यो मृद्धयः सामान्येनापत्ये अण् भव. ति । इजोऽपवादः । कुरुभ्यः नाकुलः । माहदेवः । दौर्योधनः । ऋषिभ्य: वाशिष्टः । वैश्वामित्रः । अन्धकेभ्यः स्वाफल्कः । राधसः । श्वैत्रकः । वृष्णिभ्यः अदारः प्रातिवाहः । वासुदेवः । आनिरुद्धः । इह मात्रयः इति परत्वाढढण यद्यपि भीमसेन करूः जातसेनः ऋषिः उग्रसेनो ऽन्धकः विष्वक्सेना वृष्णिः तथापि परत्वात्सेनान्तलक्षणो राय इन्च भवति मध्येपवादेयं पूर्व जित्यं बाधते । मातुरुत्संख्यासंभद्रादेः ॥ १०४ ॥ मातृशब्दस्य संख्यासंभद्रादेः उकारश्चान्तादेशो भवति श्रण चाधिकारात्। द्वयोर्मात्रोरपत्यं वैमातुरः । भरतः। शातमातुरः । सांमातुरः । भाद्रमातुरः । अभिधानवशात् जननीपर्याः यस्य मावशब्दस्य ग्रहणम् । संख्यासंभद्रादेरिति किम् । सौमाः। वैमात्रेयः। विमातृशब्दः शुभ्रादिषु पठ्यते। कन्यायाः कनीन च ॥ १० ॥ कन्यायाः कनीन इत्ययमादेशो भवति । अण च तस्माढढणोऽपवादः । कानीनकः कर्णः । कानीनो हि नारकः । विकर्णसुङ्गछगलासभरद्वाजात्रिषु ॥ १०६ ॥ विकर्ण लुङ्ग छगल इत्येतेभ्यः श्रण भवति यथासंख्यं
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy