SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । १७ ध्यायस्य स्त्री उपाध्यायी । गणको । प्रष्ठो । महामात्री । एते संज्ञाशब्दा पुयोगात् स्त्रिया वर्तते । पुंयोगादिति किम् । देवदत्ता । खोरिति किम् । प्रसूता । प्रजाता । परिभ्रष्ठा । पुयोगादेते शब्दाः स्त्रिया वर्तन्ते न तु पुसि संज्ञाभूताः । अगोपालकादेरिति किम् । गोपालिका । पशुपालिका । आदिशब्दः प्रकारवाची | तेन सूर्याद्देवतायां ङीर्न भवति । सूर्यस्य भार्या सूर्या । देवतायामिति किम् । सूर्यो नाम मनुष्यः तस्य सूरीति । पूतक्रतोरैच ॥ ३८ ॥ पुंयोगादिति वर्तते । पूतक्रतुशब्दात्तु ङीत्यो भवति ऐकारश्चान्तादेशः । पूतक्रतोः स्त्री पूतक्रतायो । पुंयोगादित्येव । पूताः क्रतवो यस्याः सा पूतक्रतुः । वृषाकप्य निकुसितकुसीदात् ॥ ४० ॥ ऐचेति वर्तते पुयोगादिति च । वृषाकपि अग्नि कुसित कुमोद इत्येतेभ्यः स्त्रियां ङोत्यो भवति ऐकारश्चान्तादेशः । वृषाकपायी । अग्नायी । कुसितायो । कुसीदायी । कुलितकुसीदयोः शाशदत्वात् पूर्वेणैव सिद्धप्यैकारार्थ वचनम् । पुंयो - गादित्येव । वृषाकपिर्नाम काचित् । 1 मनोरौ च ॥ ४१ ॥ I पुंयोगादिति वर्तते औकारश्चान्तादेशः ऐकारश्च । मनोः स्त्री मनावी । मनायी । केषांचिन्मनुरित्यपि ॥ 1 I वरुणभव सर्व रुद्रेन्द्रसृडहिमारण्ययवयवन मातुला चार्याणामानुक् ॥ ४२ ॥ वरुणादिभ्यो मृयो ङीः स्त्रियां त्यो भवति अनुगागमः । अत्र केषांचिच्छन्दानां पुंयोगादिति सिप्यानुगर्थ ग्रहणम् ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy