SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ instadlinentulitetalan महावृत्तिसहितम् । कर्मणीति वर्तते । चेलार्थेसु कर्मसु वाक्षु को पयतेर्णम् भवति वर्षप्रमाणे गम्ये । चेलकोपं वृष्टो देवः । एवं बस्त्रकोपं बसनको पम् । शुष्कचूर्णभक्षेषु पिषः ॥ २० ॥ कर्मणीति वर्तते । शुष्क चूर्ण पक्ष इत्येतेषु कर्मसु वाक्षु पिषौर्णम् भवति । शुष्कपेष पिनष्टि तगरम् । शुष्क पिनष्टीत्यर्थः । एवं चूर्णपेषं पिनष्टि । भक्षपेषं पिनष्टि । घनि सति क्रियाविशेषणे शुष्कस्य पेषं पिनष्टि इत्येवमादयः प्रयोगाः साधवः । इतः प्रभृति उपदंशोभायामित्यतः प्राक यत एव धोर्णम् भवति तस्यैवानुप्रयोगोऽपि भवत्यभिधानवशात् । जीवाकृते ग्रहिकृतः ॥ २१ ॥ कर्मणीति वर्तते । जीव अकृत इत्येतयोः कर्मचिनो चोर्यथासंख्यं ग्रहि कृञ् इत्येताम्यां णम् भवति । नीवग्राह गृहीतः । अकृतकारं करोति निमले कषः ॥ २२ ॥ कर्मणीति वर्तते । निमूले कर्मणि वाचि कषेणम् भवति । निमूलकाषं पति । घजि सति क्रियाविशेषणे निमूलस्य काषं कषति इत्यपि भवति । समूले हनश्च ॥ २३ ॥ ____ कर्मणीति वर्तते । समूले कर्मणि वाचि हन्तेः कषेश्च णम् भवति । समूलघातं हन्ति । ससूलका कति। करणे ॥ २४ ॥ हन इति वर्तते। करणे वाचि हन्तेर्णम् भवति । पाणिघातं कुड्यं हन्ति । पाणिना हन्तीत्यर्थः । पादघातं शिलां हन्ति यदा हिंसाओं हन्तेर्विवक्षितः तदा हिंसादेककर्मकादिति mode amompone
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy