________________
ANDHARINDANA
जैनेन्द्रव्याकरणम् । पलायते । क्रियावृत्तौ वय॑ति भूते च नित्यो स्लङ् ।
इच्छाथै लिड्लोटौ ॥ १३३ ॥ इच्छाथै धौ धाचि लिङ्लोटौ त्यौ भवतः । सर्वष्टकारापवादौ । वेति व्यवस्थितविभाषानुवर्तते । तेन कामप्रकाशने इदं विधानम् । इच्छामि भुञ्जीत भवान् । भुङ्क्तां भवान् ।प्रार्थये अधी. यीत भवान् । अधीतां भवान् । कामप्रकाशन इति किम् । इह मा भूत् इच्छन् करोति । नात्र प्रयोक्तुः कामप्रवेदनम् । उत्ताप्योः पृष्टोक्तावित्यत आरभ्य यत्र केवलो लिङ्क हेतुः शिष्यते तत्र क्रियावृत्तौ लुङ् नान्यत्रेति केचित् ।
तुमेककत के ॥ १३५ ॥ ___ इच्छार्थे एककत के धौ वाचि तुम्नवति यस्मात्तम् विधीयते प्रत्यासत्तः तदपेक्षयैककर्तृकत्वम्। लिङलेोटारपधादोऽयम् । इच्छति भोक्तुम् । वाञ्छति कर्तुम् । कामयते कर्तुम् । एककर्तृक इति किम् । देवदत्त भुजान मिच्छति परः । इह कस्मान्न भवति । इच्छति कटं करोति चैनम् । नात्र कति प्रतीच्छतेः सामय किन्तु कटं प्रति तेनान्वर्थ पाक्संज्ञाविरहात्तुम् न भवति ।
लिङ्॥ १३६ ॥ इच्छार्थ एकक के धौ वाघि तुम् भवति । पूर्व हुमा लिलौटौ बाधितो पुनर्लिप्रसवार्थमेतत् । योगविभाग उत्तरार्थः । अधीयीयेति इच्छति । भुञ्जीयेति वाञ्चति । इति शब्दः क्रियाशब्दसंबन्धद्योतनार्थः ।
तेभ्यो भवति वा ॥ १३७ ॥ तेभ्य इच्छार्थेभ्यो धुभ्यः भवति काले वा लिङ् भवति । इच्छेत् । इच्छति । कामयेत । कामयते । उश्यात् । वष्टि ।