SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ wwam emawwam HWAROORDARAMANumeroomsadhiwasir man DINES । जैनेन्द्रव्याकरणम् । करिष्यामीति व्रजति। हरिष्यामीति व्रजति । लद्ग्रहणं किम् । त्यान्तरत्त्वं मा विज्ञायि । अनद्यतने लुट् ॥ १४ ॥ वस्य॑तीति बर्तते । वत्स्यत्यनद्यतने ध्वथै वर्तमानाडोलट् भवति । श्वः कर्ता । श्वोऽध्येता। अनद्यतन इति वसनिर्देशादद्य श्बो भक्ष्यामहे इत्यत्र न भवति। विभाषानुवर्तनात् परिदेवने लूटविषयेपि लुट भवति । इयन्तु कदा गन्ता एवं निद्धती पादौ । अयं तु कदाध्येता एवमनभियुक्तः॥ पदरुजविशस्टशो घञ् ॥ १५ ॥ पद रुज विश स्पृश इत्येतेभ्यो घञ् भवति । पद्य. तेऽसौ पादः । एवुतचोरयमपवादो न पचायचः सुम्मिडतं पदमिति पदनिर्देशात् । रुजत्यसौ रोगः । विशत्यसौ वेशः । इगुलक्षणस्या पवादः। स्पृश उपतापेऽभिधानम् । स्पृशतीति स्पी रोगः । उपतापादत्यत्र स्पष्टा स्पर्शकः॥ स स्थिरे ॥ १६ ॥ सरतेः स्थिरे कर्तरि घञ् भवति । कालान्तरं सरतीति सारः । मधुकसारः। विभाषानुपर्तनात् स्थिरव्याधिमत्स्यबलेष्वभिधानम् । अतिसारो व्याधिः । विसारो सत्स्यः। सारो बलम् । एतेविति किम् । सर्ता। सारकः॥ भावे ॥ १७ ॥ -DIORampus reone
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy