SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् | ३०६ 1 1 प्रयोजनं यस्या व्रजना दिक्रियायाः सा तदर्था तस्यां वाचि वर्त्स्यति काले बुरातुमैौ भवतः । कारको व्रजति । कर्तुं व्रजति । भोजको व्रजति । भोक्तं व्रजति । क्रियायामिति किम् । भिक्षिष्ये इत्यस्य जटाः । अध्येष्ये इत्यस्य कमण्डलुः । द्रव्यमत्र तदर्थम् । तदर्थायामिति किम् । धावतस्ते पतियति दण्डः । नात्र धावनं दण्डपतनार्थम् । जनु सामान्यविहितेन एवुना सिद्धं किमर्थं वुण्विधोयते झिकृते भान्तो भवतीति भिन्नविषयत्वात्तुमपि न वाधकः क्रियायां तदर्थायां वाचि लड़ वदयते स वाधकः स्यात् वासमविधिना ण्वुर्भविष्यतीति चेत् एवं तर्हि नियमार्थं avaचनं वति क्रियायां तदर्थायां वाचि बुणेव यथा स्यात् तृजादयो मा भूवन् इति कर्ता व्रजति विकिरो व्रजति इत्येवमादि न भवति ॥ भाववाचिनः ॥ ६॥ भाववाचिनो घञादयः ते वर्त्स्यति काले क्रियायां तदधीयां वाचि भवन्ति । यद्यपि सामान्येन विहिता घञादयस्तथापि बुराग्रहणं ज्ञापक्रमुक्तं सामान्यविहितास्त्याः वत्स्यति काले क्रियायां तदर्थायां न भवन्तीति तुमा च बाध्येरन् । तेनायं यत्नः । पाकाय व्रजति । मतये व्रजति पुष्टये व्रजति । तुमर्थाद् भाव इत्यप् । भाव इति किम् । पणे न । वाचि ग्रहणं किमर्थम् । यकाभ्यः प्रकृतिभ्यो येन विशेषणेन त्या विहितास्ताभ्यः प्रकृतिभ्यो तेन विशेषणेन क्रियायां तदर्थायां वाचि यथा स्युरित्येवमर्थम् ॥ 1 1 कर्म्मणि चाण् ॥ १० ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy