SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ madamittasutane meanemune २८८ महात्तिसहितम् पुरि लुङ् वा ॥ ६ ॥ पुराश्शब्दो भूतानद्यतने वर्त्तते न भूतमात्रे । पुराशब्दे चाचि भूतानद्यतने वा लुङ् भवति पक्ष यथाप्राप्तं च । अवात्सुरिह पुरा छात्राः। अवसन्निह पुरा छात्राः। परो. क्षविवक्षायां लिडपि भवति । ऊषुरिह पुरा छात्राः॥ लट् ॥ ६ ॥ वेति निवृत्तम् । लड् भवति पुराशब्दे वाचि भूतानद्यतने । वसन्तीह पुरा छात्राः। योगविभाग उत्तरत्र लट एवानुवर्तनार्थः॥ स्मे ॥ १०॥ स्मशब्दोऽप्यनद्यतने परोक्ष च वर्तते न भूतमात्रे । स्मशब्दे वाचि अनद्यतने लट् भवति । इति स्मोपाध्यायः कथयति । स्वयं प्रभार्थ युध्यन्ते स्म विद्याधराः । ललिटोरपवादोऽयम् । स्मपुराशब्दयोयुगपत्प्रयोगे परत्वात् स्मलक्षणो लट् । सुलोचनार्थ पुरा युध्यन्ते स्म पार्थिवाः। हशश्वल्लक्षणादपि विधिः परत्वेन स्मलक्षणः । इतिहाधीयते स्म । शश्वधीयते स्म । तथा हशश्वल्लक्षणात् परत्वेन पुरालक्षणे विधिः । इति ह पुरा अध्यगीषत । शश्वत्पुरा. अध्यगोषत । ननौ पृषप्रतिवचने भूतमात्रे लट् वक्तव्यः । अकार्षी कटं देवदत्त ननु करोमि भोः। तथा नशब्दे नुशब्द च वाचि पृथुप्रतिवचने भूते वा लट् वक्तव्यः। अकार्षीः कटं देवदत्त न करोमि भोः नाकार्ष भोः। अहं नु करोमि अहं न्वकार्षम् । नेदं द्वयं वक्तव्यम् । पूर्वत्र
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy