________________
| २४
महावृत्तिसहितम् । अल्पे । अल्पाः। श्रद्धे । अाः । कतिपये। कतिपयाः। नेमे। नेमाः। नमशब्दस्य प्राप्ते ऽन्येषामप्राप्ते विभाषा। अत्रापि जसः कार्य प्रति विकल्पः । कुत्साद्यर्थे के कृते तेन व्यवधानात्पक्षे ऽपि सर्वनामसंज्ञा न भवति । तेन प्रथमका इत्यादि सिद्धम् ॥
पूर्वादयो नव ॥ ४२ ॥ पूर्वादयो नव सर्वादी व्यवस्थिता जसि वा सर्व नामसंज्ञा भवन्ति । तथाहि । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायां स्वमज्ञातिधनाख्यायामन्तरंबहियोगोपसंव्यानयोरिति । पूर्व । पूर्वाः । परे । पराः । अवरे । अवराः। दक्षिणे। दक्षिणाः । उत्तरे । उत्तराः । अपरे । अपराः । अधरे। अधराः। व्यवस्थायामिति किम् । दक्षिणा इमे गाथका अपरा वादिनः । नात्र दिग्देशकालकृतोऽवधिनियमो व्यवस्था प्रतीयते किं तर्हि प्रावीण्यमन्यार्थता च । असंज्ञायामिति किम् । उत्तराः कुरवः । व्यवस्थायामपीयं संज्ञा । तेषां स्वे शिष्याः स्वाः । यदा ज्ञातिधनयोः संज्ञारूपेण वर्तते स्वशब्दस्तदा नास्ति सर्वनामसंज्ञा । उल्मुकानीव स्वा दहन्ति विद्यामाना अपि स्वा न दीयन्ते । अन्तरे गृहाः । अन्तरा | गृहाः । अन्तरा गृहा नगरबाह्या इत्यर्थः ।
अपुरीति वक्तव्यम् ।
अन्तरायाः पुरः आगतः। वाहाया इत्यर्थः। अन्तर शाटकाः । अन्तराः शाटकाः । उपसंव्यानमित्युत्तरीयवस्त्रस्य संज्ञा । वहियोंगोपसंव्यानयोरिति किम् । इमे ग्रामाणामन्तराः । अयमनयोरन्तरे स्थितः। जसि कार्य