SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४२ महावृत्तिसहितम् । कुषिरजेः श्यो मे वा ॥ ६ ॥ कुषिरचित्येताभ्यां कर्मण्यात्मनि वा श्यो भवति मे परतः। कथं मविधिः वृद्धकुमारीवरवाक्यन्यायेन यथा वहुक्षीरघुतमोदनं मम पुत्रा भुक्षीरन्नित्यत्र वरादिलब्धिः। कुष्यति पादः स्वयमेव । रज्यति वस्त्रं स्वयमेव । यदा श्योन भवति तदा यगदविधी भवतः।कुष्यते पादः स्वयमेव । रज्यते वस्त्रं स्वयमेव । यदनुवर्तते तदपवादोयं तेन लिड्लिडो: स्यादिविषये च नायं विधिः॥ तपस्तपःकर्मकस्य कर्मवत् ॥ ॥ ६१ ॥ तपतेस्तपःकर्मकस्य को कर्मवद्भवति । कर्मातिदेशस्य यग्दविधी प्रयोजनम् । तप्यते तपः साधुः । अर्जयतीत्यर्थः । अतप्यत तपः साधुः । अतप्त तपः साधुः । तपःकर्मकस्येति किम् । उत्तपति सुवर्ण सुवर्णकारः॥ जिडी ॥६॥ मण्डूकम्लत्या ते इति वर्तते लुडीति च त्रिरित्ययं त्यो भवति डावर्थ लुङि ते परतः। भावे आसि भवता ।कर्मणि अकारि कटो भवता । अलावि केदारो भवता। पुनर्निग्रहणं किम् । जिरव यथा स्यात् । यदन्यत्प्रामोति तन्माभूत् । उपाश्लेषि कन्या । शिलष इति क्सो न भवति ॥ मे यक् ॥६३॥ डाविति वर्तते डिवाचिनिगे यक् भवति । आख्यातषाच्यस्य भावस्यैकत्वात् अस्मद्युष्मत्सञ्जाभावाच अन्यसज्ञक एक एव च भवति। प्रास्यते भवता । सुप्यते m alinadeanama aanemama awanpanRRORE प्र
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy