SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ महावृत्तिसहितम् । ष्णान्तेल ॥ ३४ ॥ ___ कतिः संख्येति वर्तते । षकारनकारान्ता संख्या | कतिशब्दश्च इल्संज्ञौ भवतः । ष्णान्तेति पदस्य संख्यापेक्षः स्त्रीलिङ्गनिर्देशः। कतेरनु वर्तनसामर्थ्यादिलसंज्ञा। षट् । पच्च । सप्त । कति तिष्ठन्ति । उविल इति जस उप ठणान्तेति संख्याविशेषणं किम् । विपुषः पामान इति अन्तग्रहणं वसनिर्देशेन संख्याप्रतिपत्यर्थमुपदेशिकार्थ च । तेन शतानीत्यादौ न भवति । इल्प्रदेशा उविल इत्येव. मादयः॥ सर्वादि सर्वनाम ॥ ३५ ॥ सर्वादयः शब्दाः प्रत्येक सर्वनामसंज्ञा भवन्ति । सर्वे । सर्वस्मै। सर्वेषाम् । स्त्रियाम् । सर्वस्यै । विश्वे । विश्वस्मै । उभशब्दस्य सर्वनाम्नोभावेत्येवमर्थः पाठः। उभाभ्यांहेतुभ्यां उभयो हेत्वार्यसति । द्विवचनटाप्परश्चायम्। उभौ पः। उभे कुले। उभे विद्ये । उभयस्मिन् । उभयेषाम् । जसि प्रथमचरमादिविकल्पात् पूर्वनिर्णयेनायमेव विधिः । उभये इति । डतरडतम इति त्यो । कतरस्मै । इतर अन्य अन्यतर । इतरमै । अन्यस्मिन् । अन्यतरस्मै । त्वमित्ययं शब्दो ऽन्यवाची। त्वे । त्वेषाम् । नेम । नेमस्मिन् । जसि वक्ष्यमाणे विकल्पः। नेमे नेमाः। समशब्दः सर्वशन्दास्यार्थे । समे । समस्मिन् । अन्यत्र यथासख्यं समाः ।समे देशे तिष्ठतीति भवति । सिमः। सिमस्मै । पू. परावरदक्षिणेत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम् । अतरं बहिर्योगोपसंव्यानयोः। त्यद् तद् एतद् अदस इदम् एक द्विः। अत्वविधि प्रति
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy