SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ amondonal - memunana जैनेन्द्रव्याकरणम् । २२६ यस्त्र लालूयस्व इत्येवायं लोलुयते । धोरिति किम् । सगेरुत्पतिर्मा भूत् । अगसंज्ञार्थं च धुग्रहणं पेपीयते । शुभिरुचिभ्यां प्रतिषेधो वक्तव्यः । अत्यर्थ शोभते । अत्यर्थ रोचते॥ नित्यं गतिविशेषे ॥ २० ॥ नित्यं यङ भवति गतिविशेषे गम्यमाने। चंक्रम्यते । आवनीवच्यते । गतिविशेषो हि यङन्तवाच्यः । तेनास्वपदेनार्थमात्रकथनमिदं कुटिलं क्रमतीति । नित्यग्रहणं तु विषयनियमार्थम् । एतयोगतिविशेष एव गर्हे एव च यङ् यथा स्यात् क्रियासमभिहारे मा भूत् । भृशं कामति । भृशं लुनाति ॥ लुपसदचरजपजमदहगृदशो गर्हे ॥ २१ ॥ लुपादिभ्यो गहें गम्यमाने नित्यं यङ् भवति प्रत्यासत्तेवर्थस्य गीं गृह्यते न साधनस्य । अनर्थकं लुम्पति लालुप्यते । सासद्यते । चंचूर्यते। जंजप्यते। दन्दह्यते । निजेगिल्यते। दन्दश्यते। दशेः कृतनखस्य निर्देशादयङप्यपि खं भवताति केचित् । दंदशोति । तदयुक्तं सौत्रत्वानिर्देशस्य । गर्ह इति किम् । सुखं सीदति स्वगृहे ॥ पाशरुपवीणातूलश्लोकसेनालामत्वचवर्म वर्णचूर्णचुरादेर्णिच ॥ २२ ॥ पाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यश्च णिज भवति । चुरादा मृदो ध्वर्थ इति सिद्धेऽपि अर्थविशेषपरिग्रहार्थ पाशादेः पृथग्ग्रहणम् । पाशाद्विमोचने। MANDU
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy