________________
२१८
measure
महात्तिसहितम् । जुहोति । नेनेक्ति । बिभर्ति। उदिति वर्तमाने ग्रहण द्वित्वाद्यर्थम् ॥
स्थगिपबभुभूभ्यः सेम ॥ १४६ ॥ स्था इण पिब भुसंज्ञकभूइत्येवमादिभ्यः परस्य सेवाकन्भवति मे परतः । अस्थात् । अस्थाताम् । अस्थुः। आत इति शेर्जुस् । अगात् । इणिति प्रश्लेषनिर्देशात् इकोऽपि ग्रहणम् । अध्यगात् । अपात् । पिब इति विकृतनिर्देशात् शोषणार्थस्य नित्तिः। प्रतिपदोक्तपरिभाषा चानित्या तेन गामादाग्रहणेष्वविशेष इतीदं लब्धम् । भु इति संज्ञानिर्देशः दाधास्वपिदिति। अदात्। अदातास् । अदुः। भु इति भवतेरस्त्यादेशस्य च ग्रहणम् । अभूत् । सूभवत्योर्मिीत्येप्रतिषेधः । म इति किम् । उपास्थिषत।उपान्मन्त्र करणे धेरिति दविधिः। भुस्थोरिदित्याकारस्थत्वं सेः कित्वम् ॥
वा प्राधेट्छाशासः ॥ १४७ ॥ घ्रा धेट छा शा सा इत्येतेभ्यः परस्य सेवा उन्भवति मे परतः । अघ्रात् । अनुप् पक्षे यमरमनमातः सक्वेति सगिटौ भवतः । हल्यः सेरितीट् । इटीट इति सेः खम् । अघ्रामीत् । अच्छात् । अच्छासोत् । न्यशात् । न्यशासोत् । अमात् । असासीत् । धेटो भुसंज्ञात्वात् पूर्वेण प्राप्ते इतरेषामप्राप्ते विकल्पः । म इत्येव । अघ्रासाताम् । अघासत। स्तुसुधूनी म इत्यधिकारासगिटी न भवतः ॥
तनादिन्यस्तथासाः ॥ १४८ ॥