SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । १८५ साधुनिपुणेनाचार्यामीबप्रतेः ॥ ५१ ॥ साधु निपुण इत्येताभ्यां युक्त अर्चायां गम्यमानायामीविभक्तो भवति प्रतिशब्दस्याप्रयोगे। मातरिसाधुः । मातरि निपुणः । पितरि निपुणः। तापवादोऽयम् । अर्चायामिति किम् । साधुनिपुणो वाऽमात्यो राज्ञः। अप्रतेरिति किम् । साधुर्देवदत्तो मातरं प्रति प्रतिग्रहणमगितिसंज्ञानामभिपय॑तानामुपलक्षणम् । मातरमभि । मातरं परि। मातरमनु । कथमसाधुः पितरि। अनिपुणे मातरि। पूजाप्रयुक्तसाधुनिपुणप्रतिषेधोऽयम् । प्रसितोत्सुकाभ्यां भा च ॥ ५२ ॥ प्रसित उत्सुक इत्येताभ्यां युक्त भाविभक्तो भवति । ईप च । केशैः प्रसितः । केशेषु प्रसितः । प्रसक्त इत्यर्थः । केशैउत्सुकः केशेषत्सुकः । पक्ष भार्थमिदम् । ईवधिकरणत्वादेव सिद्धः॥ उसि भे ॥ ५३ ॥ ईवनुवर्तते भा च । उस्विषये भवाचिनि भेपी विभतयौ भवतः। भाधुक्तः काल इत्यागतस्याणः उसभेद इत्युसि कृते यदा भवाचोशब्दः काले वर्तते तदा तस्माद्भा च ईप च भवत इत्यर्थः । पुष्येण पायसमश्नीयात् । पुष्ये पायसमश्नीयात् ।मघाभिः पललादनम् । मघासु पललौदनम् । उसीति किम् । मघासु ग्रहः नात्र मघाशब्दः काले वर्तते। भ इति किम् । पञ्चालेषु वसति । पञ्चालस्थापत्यानि पच्चालाः तेषां निवासः पञ्चालः। निवासार्थे आगतस्याण: जनपद उसित्युस । इह कस्मान्न भवति । अद्य पुष्यः । -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy