________________
-
महावृत्तिसहितम्
न धुखे ऽगे ॥ १८ ॥ प्रतिषेधसामर्थ्यादेकदेशे धुर्वर्तते । धोः खं यस्मि. नगेस धुखः । तन्निमित्तावेपो न भवतः ॥ लोलुवः। पोपु. वः। मरीमृजः । यङतेभ्यः पचायच् यङोऽचीति यङ उप । | अतः खात् प्रागेव च यङ उबेषितव्यः। अन्यथा देद्य इत्यत्र
अखमजादेश इति कृत्वा तस्य स्थानिवद्भावात् दोडोऽचि विति युडिति युट् प्रसज्येत । धुग्रहणं किम्। लूज । लवि. ता।खविधिर्व लवानिति प्रागेव धुसंज्ञाया अनुवन्धनाशः। अत्रागनिमित्तं खं नास्तीति यङ्गवैकल्यं नाशङ्कनीयम् । यतो धुग्रहणे सति बसो लभ्यते धोः खं यस्मिन्निति । वसेन अग इत्यस्य विशेषणं किम् । नयी । नोपयति। अत्र पुकमाश्रित्य यखं नागनिमित्तमिति न प्रतिषेधः । वसे तु प्रसज्येत । अग इति किम् । रोरवीति। गनिमित्त एम्भवत्येव । अत्रापि यङखमगनिमित्तं न भवतीति यङ्गवैकल्यं न मन्तव्यम् यतो ऽगग्रहणे सति धुखनिमितत्वं लभ्यते इक इत्येव । अभाजि । रागः ॥
क्विति ॥ १६ ॥ गिति किति डिति च निमित्तभूते यावैव प्राप्नुतस्तौ न भवतः ॥ गिति । ग्लाभूजिस्थः स्नुरिति । भूष्णुः। जिष्णुः। किति । चितम् । स्तुतम् । भिवाम् । मृतृम् । डिति। चिनुतः । चिन्वेति । मृधः । मृजन्ति । इक इत्येव । काम यते । अचिनवमित्यत्र लडो ङित्वाकरमान्न प्रतिषेधः । सुभवत्यार्मिङिति अभूत् । भवतेहलादा मिड्येप्प्रतिषेधवचनं ज्ञापकं जितो लकारास्थादेशो डिन्न भवति इति । यासुटो डिस्करणंच ज्ञापकम् ॥
-