SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ महावृत्तिसहितम् । याजकादिभिः ॥ १२ ॥ याजकादिभिश्च सह तान्तं समस्यते षसो भवति । पूर्वेण प्राप्तः तृजकाभ्यां कर्त्तरीति प्रतिषिद्धः पुनरनेन षसः । देवानां याजको देवयाजकः । साधूनां पूजकः साधुपूजकः याजक पूजक परिवारक परिवेषक सापक उर्त्तक उत्सादक होतृ भर्तृ रथगणक पतिगणक । अध्यापक १५० न प्रतिपदम् ॥ ७३ ॥ प्रतिपदविहिता या ता तदन्तं न समस्यते । शेषलक्षणां तां मुक्का सर्वान्याता प्रतिपदविधानम् । सर्पिषो ज्ञानम् । पयसेो ज्ञानम् । ज्ञो स्वार्थे करण इति ता । इहापि धर्मानुस्मरणम् । धर्मचिन्तनमिति । स्मर्थदयेशाङ्कर्मणि इत्यनेन शेषलक्षणा तानूद्यते । वनस्वामी । वनेश्वरो विद्यादायाद इत्येवमादिषु स्वामीश्वरादिसूत्रे चकारेण शेषलक्षणा ता समुच्चयते । निर्द्धारणे ॥ १४ ॥ निर्द्धारणे या ता तदन्तं न समस्यते । जातिगुणक्रियाभिः समुदायादेकदेशस्य निष्कृष्य धारणं पृथक्करणं निर्धारणम् | क्षत्रियो मनुष्याणां शूरतमः । श्यामा नारीणां दर्शनीयतमा । कृष्णण गवां सम्पन्नक्षीरतमा । धावन्तोऽध्वगानां क्षिप्रतमाः । क्षत्रियादिशब्देन सह वृत्तिर्न भवति । यतश्च निडीरणमिति चकारेण शेषलक्षणायास्तायाः समु च्चयः । प्रतिपदविधानत्वे हि पूर्वेणैव सिद्धः प्रतिषेध इतीदमनर्थकं स्यात् । इह पुरुषेश्वर इति शेषलक्षणा ता विवक्षिता न निर्द्धारणलक्षणा ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy