SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १४२ mundatoantetaphantablishmentation nesa m panemonesemomena R महावृत्तिसहितम् । तदकर्तव्यं च । अननिति किम् । अकृतं च तत्कृतञ्च । ननु कृग्रहणे तिकारकपूर्वस्यैव ग्रहणमनभिति किमर्थम् । नजपूर्वेणापिवृत्त्यर्थमितिशेषः । इह गतप्रत्यागतः यातानुयात इत्येवमादिषु पूर्वकालैकेत्यादिना षसः॥ सन्महत्परमोत्तमोत्कृष्टं पूज्येन ॥ ५६ ॥ सत्-महत्-परम-उत्तम-उस्कृष्ट इत्येते सुबन्ताः ।। पूज्यवचनन सह समस्यन्ते षसो भवति । संश्च सः पुरुषश्च सत्पुरुषः । महापुरुषः । परमपुरुषः । उद्गततमः उत्तमः । अत एव निपातनात् किमेन्मिझिमादामद्रव्य इत्याम् न भवति । उत्तमपुरुषः । उत्कृष्टपुरुषः । पुज्येनेति वचनादत्र सदादयः पूजावचना ज्ञातव्याः। पूज्यनेति किम् । उत्कृष्टो गौः । कर्दमादुद्धृत इत्यर्थः ॥ वृन्दारकनागकुञ्जरैस्तत् ॥ ५ ॥ पूज्येनेति वर्तमानमर्थवशाद्वान्तं संपद्यते । वृन्दारकादिभिः सह तत् पूज्यवाचि सुबन्तंसमस्यते षसो भवति । तदित्यनेन पूज्यवचनेनाभिसम्बन्धात् वृन्दारकादयः पूजावचना गृह्यन्ते । गौश्चासौ वृन्दारकश्च गोवृन्दारकः । पुन्नागः । गोकुञ्जरः। अश्वकुञ्जरः । व्याघ्रादेराकृतिगणत्वात् व्याघैरुपमेयेऽतद्योग इत्येव सिद्ध सामान्यप्रयोगेऽपि यथा स्यादित्यारम्भः । गोनागो बलवान् । तदिति किम् । शोभना शीमा फणा अस्य सुशीमो नागः ॥ कतरकतमी समर्था ॥ ५८ ॥ किंशब्दात् किंयत्तदो निहारणे योरेकस्य डतरः वा बहूनां जातिप्रश्ने डतमः। तयोः परतष्खेि कृते कतर e emucupreme mastu mean ROMus
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy