SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ren a antaman जैनेन्द्रव्याकरणम् । रसंज्ञो भवति । हृदर्थे । दावनुयोगी वेत्त्यधोते वा धनुयोगः । रस्योबनपत्य इत्यण उप् । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः। द्यौ । पञ्च नाव: प्रिया अस्य पचनावप्रियः। नावो रादिति टः सान्तः। समाहारे। पञ्चपूली। चशब्दः षसंज्ञासमावेशार्थः। वे अङ्गुली समाहृते ब्यङ्गुली । षेङ्गलेझिसंख्यादेरिति आसान्तः । रादिति डीविधिश्च सिद्धः। कुत्स्यं कुत्सनैः ॥ ४ ॥ कुत्स्यवाचि सुबन्तं कुत्सनवाचिना षसो भवति । वैयाकरणखसूचिः । प्रत्यासत्तः शब्दप्रवृत्तिनिमित्तस्य कुत्सायामयं सविधिः। रूपसिद्धिं पृष्ो निःप्रतिभः सन् य खं सूचयति वीक्षते स खसूची। खसूचित्वं कुत्सनम् । विशेषणस्य परनिपातार्थ प्रारम्भः। एवं क्षत्रियभीरुः। श्रोत्रियकितवः । भिक्षुविटः। मीमांसकदुर्दुरूढः । कुत्स्यमिति किम् । वैयाकरणः कितवः। न हि वैयाकरणत्वं कितवत्वेन कुत्स्यते । कुत्सनैरिति किम् । कुत्सितो ब्राह्मणः। पापाणके कुत्स्यैः ॥ ४ ॥ पापाणकशब्दो कुत्सनवचना कुत्स्यवचनैः षसो भवति । पापकुलालः । आणकनापितः । पूर्वयोगेन कुत्स्यस्य पूर्वनिपाते प्राप्ते परनिपातार्थ आरम्भः । सामान्येनोपमानम् ॥ ५० ॥ उपमानोपमेययोः साधारण धर्मः सामान्यम् । उपमीयते परिच्छिद्यते अनेन सादृश्येनार्थ इत्युपमानम् । उपमा mammmms
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy