SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Diamomen महावृत्तिसहितम् । ऽपि निसंज्ञा। प्रादुस् श्रत् प्राविस । प्रादुःकृत्य । प्रादुर्भूय। अडाय । आविर्भूय । श्राविःशब्दः साक्षादादी च पठ्यते । तस्य दा कृषीति करोतियोगे तिसंज्ञाविकल्पः। आविकृत्य । आविष्कृत्वा ॥ अनितावनुकरणम् ॥ १३२ ॥ अव्यक्ती व्यक्ती वा शब्दोऽनुक्रियते तेनेत्यनुकरणम् । अनितिपरमनुकरणं क्रियायोगतिसंज्ञं भवति। खादकृत्य । पटत्कृत्य । अनिताविति किम् । खाडिति कृत्वा निरष्ठीवत् । खाट्छब्दस्य धाः प्राक प्रयोगः सविधिश्च प्रसज्येत । ध्वादेः षः स इत्यत्र सुब्धुष्ठीवतिष्वष्कतिष्ट्यायती. नां प्रतिषेध उक्तः॥ सदादरानादरयाः ॥ १३३ ॥ आदरः सम्भ्रमः । अवज्ञानमौदासीन्यं वा ऽनादरः। सच्छन्द आदानादर इत्येतयोरर्थयोस्तिसंज्ञो भवति । आदरे । सत्कृत्य । अनादरे । असत्कृत्य । अनादर इत्यर्थनिर्देशात् सच्छब्दस्य तदन्तविधिरिः । तेनेहापि भवति । परमसत्कृत्य । तिसंज्ञायां निसंज्ञासमावेशः। निसंज्ञस्यासंख्यत्याज्ज्ञिसज्ज्ञा । आदरानादरयोरिति किम् । सत्कृत्वा काण्डं गतः। विद्यमान कृत्वेत्यर्थः। भूषापरिग्रहे ऽलमन्तः ॥ १३४ ॥ अलमन्तरित्येता शब्दा भूषायामपरिग्रहे चार्थे यथासंख्यं तिसंज्ञौ भवतः। अलकृत्य । भूषयित्वेत्यर्थः। अन्तहत्य । मध्ये हत्वेत्यर्थः । भूषापरिग्रह इति किम् । अलं कृत्वा । अन्तर्हत्वा मूषिका गताः । पर्याप्तं कृत्वेत्यर्थः। - -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy