SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । १०३ योजकः प्रेरकस्तस्य स्वतन्त्रस्य योजको योऽर्थस्तत् कारक हेतुसंज्ञं भवति । पुल्लिङ्गकर्तृसंज्ञासमावेशात् कर्तृसंज्ञं च । कारयति । भोजयति । हेतुत्वातुमतीति णिच । कर्तृत्वाल्लकारवाच्यता । गौणस्यापि योजकस्य हेतुत्वम् । भिक्षा वासयति । कारीषेोऽग्निरध्यापयति । तद्योजक इति वचनं ज्ञापकं तृजकाभ्यां कर्तरीत्यस्य तासप्रतिषेधस्यानित्यत्वम् ॥ निः ॥ १२६ ॥ अधिकारोऽयम् । प्राग्धोस्ते इत्यतः प्राक् । यानित उर्द्धमनुक्रमिष्यामो निसंज्ञास्ते वेदितव्याः । वक्ष्यति चादिरसत्वे । च वाह अह एव । निरिति पुल्लिङ्गनिर्देश: किमर्थ: गितिसंज्ञाभ्यां समावेशी यथा स्यात् । निप्रदेशा निरेकाजनाङित्येवमादयः ॥ चादिरसत्वे ॥ १२१ ॥ सीदत अस्मिंलिङ्गसंख्ये इति सत्वम् । लिङ्गसंख्यावदद्रव्यमित्यर्थः । चादयो निसंज्ञका भवन्ति न चेत् सत्वे वर्तन्ते । चवा हा ग्रह एव एवम नूनम् शश्वत् भूपत् कूपत् कुवित् नेत् चेत् चण् कचित् यत्र नह ह त माकिम नकिम् माङ् । ङकारो माङि लुङीति विशेषणार्थः । अङिति माशब्दे माऽभवत् मा भविष्यति । न नञ् । ञकारो नञिति विशेषणार्थः । नहि वात्वाक ननु चत्वेच तु है न्वै नुवै रूवै रेवै श्रौषट् वौषट् स्वाहा स्वधा ओम् तथाहि खलु किल अथ अवस् स्म अस्मि आ इ उ ऊ ऋ लृ ए ऐ ओ औ उञ सुञ आदह आतङ्क वेलायाम् मात्रायाम् यावत् यथा किम् यत् तत् यदि पुरा धिक् हे हो पाट प्याट उताहो
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy