SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ SHISHARANH0673G ॥ अथ पञ्चमोऽधिकारः॥ सिद्धानाम् कर्माग्रहणं नवभिः श्लोकैवर्णयतिमूलम्-चेदाश्रयाश्रेयकभाव एवं, सिद्धोऽस्ति कर्मात्मकयोरवश्यम् । जीवास्तु सिद्धा अपि सन्त्यनन्त-चतुष्टयेद्धाः परमेष्ठिसंज्ञा() ॥१॥ पृच्छामि पूज्याः ! खलु तर्हि सिद्धा-त्मानो न कर्माणि समाददन्ते । कथं तदेषामपि सौख्यसत्त्वा-लातां सुकर्माणि निषेधकः कः ॥२॥ टीका-यदि कर्मात्मनोराधाराधेयभावः सिद्धस्तर्हि सिद्धात्मानः कथं न कर्म गृहणंतीति श्लोकद्वयेनाह-वेदित्यादि 'हे पूज्याः!'-पूजनीयाः !, अहमेतत् 'पृच्छामि'-प्रश्नं करोमि, 'यत्' चेद्यदि, 'एवम् '-उक्तरीत्या, 'कर्मात्मकयोः'कर्मजीवयोः, 'अवश्यं '-निश्चयेन, आश्रयाश्रेयकमावः'-आधाराधेयभावः, 'सिद्धः'-निष्पन्नोऽस्ति, तर्हि '-तदा, 'खल्वि'ति-निश्चये, 'सिद्धाः '-सिद्ध(द्धिं) गता अपि, ‘जीवाः '-आत्मानः, 'सन्ति '-वर्तन्ते, 'तु' शब्दश्चरणपूर्ती, १. आधाराधेयभावः। २. अनन्तज्ञानानन्तदर्शनानन्तसुखानन्तवीर्यलक्षणानन्तचतुष्टयेनेद्धाः दीप्ताः प्रसिद्धा वा । ३. परमे पदे तिष्ठन्तीति परमेष्ठिनः सैव संज्ञा येषां ते तथा । ४ समाददन्ते समापूर्वो ददिरयं भौवादिकः गृहणन्तीति । ५. तत्तस्मात् कारणात् एषां सिद्धजीवानामपि कर्माणि गृह्णताम् । ६ गृह्णताम् । 35ARSNSAR RSS SRISACHS
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy