SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 009 Cococ860909068606969696 'फलति'--फलदायको भवति, कथंभूतः स्वप्नः ? 'यथार्थः'--सत्यः, पुनः कथंभूतः ? 'प्रधानपुंसेक्षित एव'--मुख्यजनदृष्ट एप, 'तथैव'-उक्तरीत्या, 'इदं' प्रस्तूयमानम् , 'आत्तम्'--गृहीतं, 'कर्म' 'कृतार्थम्'-सफलं भवति--फलप्रदं भवतीत्यर्थः ॥१२-१३॥ मूलम् - स्यादङ्गिनः संशय एव नात्र, व्यर्थीभवत्स्वप्नभरस्य जन्तोः। ___ स्वनो यथा केवलिनस्तथास्ति, कर्मग्रहस्तत्क्षणनाशतो यत् ॥१४॥ टीका-स्यादित्यादि 'अत्र' -अस्मिन् विपये, 'अङ्गिन'-प्राणिनः, 'संशय एव न स्यात्'-शंकैव भवितुम् न शक्नोति, कुत इत्याह ? व्यर्थीभवदित्यादि यद्यस्मात् कारणात् व्यर्थीभवत्स्वप्नभरस्य जन्तोरिति यस्य 'स्वप्नभर-स्वप्नसमूहो, 'व्यर्थीभवत्'-वर्सते, तस्य प्राणिन इत्यर्थः, यथा स्वप्नो भवति व्यर्थरूप इत्यर्थः, 'तथा' 'केवलिन'-केवलज्ञानयुक्तस्य, 'कर्मग्रहः'कर्मग्रहणमस्ति व्यर्थरूपमित्यर्थः, कुत इत्याह-'तत्क्षणनाशतः'-तस्मिन्नेव क्षणे, उत्पादकाळ एवेतिभावः, 'नाशतः'-विलोपात् ॥ मूलम्-तथा निजात्मन्यपि पश्यतोऽत्र, सम्मील्य चेतः परिकल्प्य सुस्थम् ॥ _उत्पत्तिकालादवसानसीमा-मात्मा सृजेत्का मणतैजसाभ्याम् ॥१५॥ टीका-तथेत्यादि तथा' शब्दः किश्चार्थे 'अत्र'-अस्मिन् , 'निजात्मन्यपि-स्वात्मविषयेऽपि, 'पश्यतः' यूयम् किं कृत्वे- 40 त्याह-सम्मील्येत्यादि 'सम्मील्य-अक्षिणी निमील्य, पुनः किं कृत्वा 'चेतः' मनः, 'सुस्थं सावधानं, 'परिकल्प्य'-विधाय, किं - १. शरीराभ्याम् ।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy