SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ विष्णवादिकं विभिन्नत्वेन दृष्टारः सन्ति, 'परन्तु '-किन्तु, ' तत्वार्थतः '-परमार्थतः, वास्तवमितिभावः, 'एषः'-प्रसिद्धः, 'आत्मा एवार्थः '-जीव एव पदार्थः, 'नन्विति'-निश्चयेन, 'विष्णुमुख्यैः '-विष्णवादिशब्दैः, 'अभिवाच्यः'-अमिधेयोऽस्ति, तत्वार्थतो विष्णवादिशब्दा आत्मपदार्थस्यैव वाचकाः सन्तीतिभावः ॥ ४॥ मूलम्-कथं हि वेवेष्ट्यथ विष्णुरात्मा, व्याप्तेरथ ब्रह्म तथैष आत्मा। शिवोऽपि चात्मा शिवहेतुतः स्या-च्छक्तिस्तथाऽऽत्मश्रितवीयमेतत् ॥५॥ ___टीका-प्रश्नोत्तरदानपूर्वकमुक्तविषयमेव विवृणोति कथमित्यादिना ' ही 'ति निश्चये, चरणपूत्तौ वा, ‘कथमिति 'भवत उक्तकथनं कथं सम्भवतीतिभावः, उत्तरमाह-वेवेष्टीत्यादिना 'आत्मा'-जीवः, 'वेवेष्टि'-व्याप्नोति, 'अथ'शब्द इति शब्दार्थः, स च हेतौ इति हेतोरितिभावः, ' सः'-विष्णुः, उच्यते, ' अथे 'ति अनन्तरे, 'तथे 'ति समुच्चये, 'एष:'-प्रसिद्धः, पूर्वोक्तो वा, 'आत्मा'-जीवः, 'व्याप्तेः'-व्याप्तिहेतोः, ब्रह्म उच्यते, 'च'-पुनः, 'अपि-शन्दा समुच्चये, 'आत्मा'-जीवः, 'शिवहेतुतः '-कल्याणकारणभावात् , 'शिवः स्यात् '-शिवो भवति, शिव उच्यत इतिभावः, 'तथे 'ति समुच्चये, 'एतत् '-प्रसिद्धम्, 'आत्मश्रितवीर्य'-जीवस्थितपराक्रमः शक्तिरुच्यते, केवलज्ञानज्ञातलोकालोक १. केवलज्ञानज्ञातलोकालोकस्वरूपो ज्ञानात्मना व्यापकत्वेन विष्णुः। परब्रह्मसज्ञनिजशुद्धात्मभावनात्मकत्वेन ब्रह्मा। शिवं निर्वाणं प्राप्त येनेति शिवः कर्ममुक्तः सिद्धत्वावस्थामधिश्रितः, यदुच्यते योगवासिष्ठादौ 'जीवः शिवः शिवो जीवो, नान्तरं शिवजीवयो। कर्मवद्धो भवेजीवः, कर्ममुक्तः सदा शिवः।" इति यद्वा अत्रत्यभावापेक्षया शिवसस्यास्तीति शिवः शिवसत्तावान् इत्यर्थः ॥ -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy