________________
नाऽयं खगो वेत्ति यदस्य शीर्षे, छायां करोमीति तथेतरोऽपि। जानाति नैवं मम मस्तकेऽसौ, छायां करोतीति मतं द्वयोर्न ॥ २६ ॥ तथापि तच्छायमहात्मतोदया-दधीशतोदेति दरिद्रतापहा ।।
अजानतोरप्यथ सिद्धिरेवं, कथं स्मृतेर्याति न पापमीशितुः ॥ २७ ॥ टीका-उक्तविपयमेवोदाहरणान्तरेण विस्पष्टयति-तथेत्यादिना ' तथे 'ति समुच्चये, ' इत्यसौ'-प्रसिद्ध इत्यर्थः, 'अस्थिभक्षी '-अस्थिभक्षणकर्ता, ' हुमायपक्षी'-हुमायनामा पक्षी, प्रसिद्धिमान् '-विख्यातोऽस्ति, तथापि सः 'सन्ततजीवरक्षी'-निरन्तरं जीवानां रक्षकोऽस्ति, ' यदि 'ति चरणपूर्ती, ‘उड्डीयमानस्य '-उत्पततः, 'अस्य '-हुमायपक्षिणः, 'छाया यन्मुड़गा'-यस्य जनस्य मस्तकं प्राप्ता भवति, 'सः'-जनः, ' अत्र'-अस्मिन्संसारे, 'नरेन्द्रो भवेत् '-नृपः सजायते, उदाहरणं विस्पष्टयति-नाऽयमित्यादिना 'यद्यपि' 'अयं'-पूर्वोक्तः, 'खगः'-हुमायुनामा पक्षी, 'इति'-एतत् 'न वेत्ति'-न जानाति, यत् 'अस्य '-जनस्य, 'शीर्ष '-शिरसि, अहम् छायां करोमि, 'तथे 'ति समुच्चये, 'इतरोऽपि'तद्भिन्नोऽपि, यस्य मस्तके छाया क्रियते स जनोऽपीतिभावः, 'इत्येवम् '-एतत् , 'न जानाति'-न वेत्ति, यत् मम शीर्षेऽहं छाया करोमि यस्य शी छाया भवेत्सोऽपि न वेत्ति मम शीर्षे हुमायः छायां करोत्येवं द्वयोरप्यशानेऽपि अन्यस्य नरेन्द्रत्वं सिध्यत्येवं सेवकोऽपि सम्यग् भगवत्स्वरूपं न जानाति भगवानपि नीरागत्वात्सेवकस्याऽभीष्टकृती नोद्यच्छत तथापि सेवकस्य स्वामिस्मरणदर्शनादिसंयोगमाहात्म्यादेवाऽभीएसिद्धिः स्यादिति काव्यत्रयेणाह तथास्थिभक्षीत्यादि । १. शानं ।।