________________
RSSAGRSANSARSSE
S
टीका-उदाहरणान्तरमाह-संसाध्येत्यादिना ' अत्र'-अस्मिन् संसारे, 'संसाध्यमानः '-औषधादिभिः सिद्धि नीयमानः, रसोऽपि ' काले'-समये, 'सिद्ध-सिद्धिंगतः सन् , 'फलायाऽस्ति'-फलार्थ भवति, 'न साध्यमान इति'-साधनकाले फलाय न भवतीत्यर्थः, उदाहरणान्तरमाह-तथेत्यादिना 'तथे' ति समुच्चये, 'अन्यदेशव्यवहारकर्म '-देशव्यवहारसम्बन्ध्यन्यदपि कर्म, 'तत्कालपूतौं -स्वकालस्य समाप्तौ, 'प्रकामं'-यथेष्टं, 'फलति '-फलदायि भवति ॥५॥ मूलम्-तथैव पूजादिकमत्रपुण्यं, काले स्व एवास्ति भवान्तराख्ये।
. फलप्रदायीति ततो न दक्षै-रौत्सुक्यमेष्यं फलदे पदार्थे ॥६॥ टीका–उदाहरणान्तरमभिधातुकाम आह-तथैवेत्यादि तथैवे' ति समुच्चये, 'अत्र'-अस्मिन् संसारे, 'पूजादिकम् '-अर्चाप्रभृतिकम्, 'पुण्यं '-धर्मसम्बन्धिकार्यम्, 'भवान्तराख्ये'-अन्यभवनामके, 'स्वे काले एव'-निजसमय एव, 'फलप्रदाय्यस्ति'-फलदायकं सञ्जायते, 'इति' शब्दो वाक्यपरिसमाप्तौ, 'ततः'-तस्मात् कारणात् , ' फलदे पदार्थ '- ' फलदायिनि वस्तुनि, 'दक्षैः'-चतुरैः पुरुषैः, 'औत्सुक्यम् एष्यम् '-उत्सुकत्वं नाभिलषणीयम् , फलप्राप्तये शीघ्रता न | कर्तव्येत्यर्थः ॥ ६॥ मूलम्-पुनर्बुधावस्य हृदि स्वकीये, पूर्वे प्रणीता य इमे पदार्थाः।
ते चैहिका ऐहिकदायिनस्तत्, फलन्त्यथाऽत्रैव यतोऽग्रतो न ॥७॥ १. पुनरास्तिकः प्राह । २. जानीहि ।