SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ टीका - भगवत्प्रतिमापूजाविषय एवाऽवशिष्ट विषयमाह - यद्वाऽस्त्वित्यादिना 'यद्वा' - अथवा, 'अस्तु' - पूर्वोक्तविषयस्तिष्ठतु, किन्तु ' अनाकारवतोऽपि ' - आकाररहितस्याऽपि, 'भगवत्सुनाम्नः ' - भगवानिति शोभनं नाम यस्य स तथा एवम्भूतस्य, ' सिद्धस्य ' - सिद्धिं प्राप्तस्य ' इदं ' - प्रसिद्धं, 'शुद्धम् ' - निर्मलम्, सर्वदोषरहितमितिभावः, ' बिम्बं 'प्रतिमा, ' तत्तत्स्वचित्ताशय चिन्तिताशाम् ' - तत् तत्प्रकारकमनोभावेन विचारितामाशां, 'साक्षादिव ' - प्रत्यक्षसिद्धवत्, ' अशङ्कं ' - शङ्कारहितम्, यथास्यात्तथा निस्सन्देह मितिभावः, ' वितरतु ' - ददातु, दातुं शक्नोतीतिभावः ॥ १ ॥ मूलम् -- यत्स्थापना सा स्वकचित्तकल्प्या, सेतोऽसतो वास्त्विह वस्तुनः सा । सर्वाऽपि याहग्निजभावसेविता, तादृक्फलं यच्छति नात्र संशयः ॥ २ ॥ टीका - अत्र पुष्टिमाह-यत्स्थापनेत्यादिना ' यत् ' - या, ' स्थापना अस्ति ' -सा स्थापना, 'स्वकचित्तकल्प्या 'स्वचित्तेन कल्पनीया भवति, ' सा' - स्थापना, ' इह ' - अस्मिन् संसारे, ' सतः - विद्यमानस्य, ' वा ' - अथवा, 'असत: 'अविद्यमानस्य, ' वस्तुनः ' - पदार्थस्य, 'अस्तु' - स्यात्, किन्तु सा ' सर्वाऽपि ' - कृत्स्नाऽपि, ' यादृग्निजभावसेविता 'यादृश निजभावेन सेविता भवति, ' तादृक् ' - तथाविधं फलं, ' यच्छति ' - ददाति, ' अत्र ' - अस्मिन् विषये, ' संशय: 'शङ्का नास्ति ॥ २ ॥ १. विद्यमानस्य अविद्यमानस्य वा ।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy