SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ RRECORRESPECReg नीता वर्तन्ते, ते एव'-जनाः, 'मान्याः'-माननीया भवन्ति, दार्टान्तविषयमाह-तथेत्यादिना ' तथा '-तेन प्रकारेण, 'स्वपूजाह्वयकर्मवीर्यात् '-स्वसौभाग्यनामकर्मवलेन, ' या ऐशी प्रतिमा '-ईशसम्बन्धिनी मूर्तिः, 'कृतास्ति'-निर्मिता वर्त्तते, ' सका'-सा प्रतिमा, ' अर्ध्या '-पूजनीया ॥ ३६-३७॥ मूलम्-प्राज्ञा य एते गदिताः पदार्था-स्ते सर्व आकारयुक्ता भवन्ति । अतस्तदीयाकृतिमन्तरात्मनः, कृत्वार्चयन्तेऽत्र तदीयबिम्बम् ॥ ३८॥ ईश्वरो निराकारोऽस्ति तथापि कथं तत्प्रतिमा भवेदिति श्लोकचतुष्टयेनाह आकारमुक्तो भगवान्प्रसिद्ध-स्ततस्तदीयं प्रतिबिम्बमेतत् । कृत्वा कथं पूज्यत एवमत्र, दोषस्त्वतदूवस्तुनि तद्ग्रहो यः ॥३९ ।। टीका-ईशसम्बन्धिन्याः प्रतिमाया विषये प्रश्नयति-प्राज्ञा इत्यादिना' हे प्राज्ञाः !' हे विद्वांसः ।, आदरार्थे बहुवचनम् , ' य एते'-पूर्वोक्ताः पदार्थाः, 'गदिताः'-कथिताः, दृष्टान्तत्वेनोपन्यस्ता इतिभावः, ते ' सर्वे '-सकला, 'आकारयुक्ता भवन्ति'-आकृतिमन्तः सन्ति, 'अतः'-अस्मात् कारणात् , 'तदीयाकृति'-तत्सम्बन्धिनमाकारम्, 'आत्मनः'-जीवस्य, 'अन्तः कृत्वा,'-मध्ये संस्थाप्य, 'अत्र'-अस्मिन् संसारे, 'तदीयबिम्बं'-तत्सम्बन्धिनीप्रतिमाम् , जनाः ' अर्चयन्ते '-पूजयन्ति, परन्तु भगवान् ‘आकारमुक्तः'-आकृतिरहितः, 'प्रसिद्धः'-विख्यातोऽस्ति, 'ततः '-तस्मात् है १ अभगवति भगवानयं इति या बुद्धिः । #GOGOGOSTOSKGROSOGROGG
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy