SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रतिमायाः पूजनात् ' अर्चितो भवेत् ' - पूजितः स्यात् ॥ २३ ॥ २४ ॥ नीरा गिनिःस्पृहिसेवया परमार्थसिद्धिं श्लोकद्वयेनाह - मूलम् - सत्यं बुधैतत्परमत्र यस्मा - द्विशेष एषोऽभिनिरीक्ष्यते महान् । देवा यदेते किल सन्ति रागिणः, पूजार्थिनो नो भगवान्स ईदृशः टीका - अत्र प्रश्नयति - सत्यमित्यादिना ' हे बुध ! ' - हे पण्डित !, ' एतत् ' - पूर्वोक्तम्, 'सत्यं ' - यथार्थमस्ति, परं ' - परन्तु, ' यस्मात् ' - कारणात्, ' अत्र ' - अस्मिन् विषये, ' एपः ' - वक्ष्यमाणः, 'महान् विशेषः ' - प्रभूतो भेदः, 'अभिनिरीक्ष्यते ' - दृश्यते, यत् ' एते ' - प्रसिद्धाः, 'देवाः सुराः, 'किले 'ति निश्वये, ' रागिणः ' - रागयुक्ताः, तथा ' पूजार्थिनः सन्ति ' - पूजाभिलाषिणो वर्त्तन्ते, परन्तु ' स: ' - पूर्वोक्तः, ' भगवान् ' - ऐश्वर्यादियुक्तः केवली, ' ईदृश: ' - इत्थं प्रकारो, 'नो' - नैवाऽस्ति, अन्ये देवा रागिणः पूजार्थिनच सन्ति, परन्तु स भगवान् रागी पूजार्थी च नाऽस्तीतिभावः ॥ २४ ॥ ॥ मूलम् - तदा त्वतीवाऽस्तु वरं यतः स्यादनीहसेवा परमार्थसिद्धये । वरमस्तु यथाहि सिद्धस्य च कस्यचिद्वा, स्पृहावतः सेवनमिष्टलब्धये ॥ २५ ॥ टीका - अस्योत्तरमाह - तदा त्वित्यादिना 'तु' शब्द: पूर्वोक्तक्रमदर्शनार्थः, ' तदा ' - तर्हि, ' अतीव अत्यन्तं श्रेष्ठमस्ति, ' यतः ' - यस्मात् कारणात्, 'अनीहसेवा' - निःस्पृहदेवसेवनं, 'परमार्थसिद्धये स्यात् ' - पारलौकिकसुखप्रा २१ ܚܪܐ
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy