SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ यथा पुनरित्यध्याहार्यम् । यथा पुनः सुधासुधाभृच्छिलयोः, सुधा अमृतं सुधाभृत् चन्द्रः तस्य शिला पाषाणः चंद्रकान्त इत्यर्थः । अमृतचन्द्रकान्तयोः सहोत्थितो योगोऽस्ति । पुनर्दृष्टान्तरमाह - अथ अनन्तरं कर्तृवादिनां ये तु जगतः सकर्तृत्वमाडुस्तेषां मते इति शेषः । कर्तुः कारकस्य गुणानां सच्चादीनां चानादिसंसिद्धो योगोऽस्ति ॥८॥ जीवानां कर्मभ्यो मुक्तिः मूलम् - कर्मात्मनोरेवमनादि सिद्धो, योगोऽस्त्ययं केवलिनः समूचुः । अस्यापि भेदो विदितस्तथाविधात्, सामग्र्ययोगात् 'कनकाइमनोरिव ॥९॥ टीका - अधुना फलितमाह कर्मात्मनोरित्यादिना । 'एव' मुक्तप्रकारेण 'कर्मात्मनोः' कर्मजीवयोरयं पूर्वोक्तोऽनादि - सिद्धोऽनाद्युत्पन्नो 'योग' संयोगोऽस्ति इति 'केवलिनः' केवलज्ञानयुक्ताः 'समूचुः' कथितवन्तः । अस्यापीति 'अस्य' पूर्वोक्तस्यापि योगस्येति शेषः भेदः विदितः प्रसिद्धोऽस्ति । कुतः ? इत्याह- 'तथाविधात् ' ताह प्रकारकात् 'सामग्र्ययोगात् ' सामग्रीभावयोगात् तादृशः सामय्या योगादिति भावः । कयोरिवेत्याह- 'कनकाश्मनोवि' सुवर्णपाषाणयोरिव पूर्व हेम पश्चात् पषाणो अथवा पूर्व पाषाणः पश्चात् सुवर्णमित्यादिको भेदो न क्वापि वक्तुं शक्यो द्वयोरपि युगपदेव सम्बन्धः ततोऽयमेतेषु वस्तुष्वनादिसंसिद्धो यथा सम्बन्धस्तथा जीवकर्मणोरप्यनादिसंसिद्धः सम्बन्ध इति भिन्नजात्योरपि स्वयं विभाव्यः ॥९॥ इति प्रथमोऽधिकारः स० १ पूर्व हेम पश्चात् पाषाणोऽथवा पूर्व पाषाणः पश्चात् सुवर्ण इत्यादिको भेदः क्वापि वक्तुं न शक्यः, द्वयोरपि समसमय एव सम्बन्धस्ततोऽयमेषु वस्तुषु अनादिसंसिद्धो यथा सम्बन्धः तथा जीव कर्मणोरपि अनादिसंसिद्धः सम्बन्धः इति भिन्नजात्योरपि स्वयं भाव्यः । 696969696966 2999€
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy