SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ - अथ सप्तदशोऽधिकारः। - - - - - परमेश्वरप्रतिमापूजनेन पुण्यसम्भव इति त्रयोविंशतिश्लोकैराहमूलम्-अत्यसो नास्तिक आख्यदास्तिकं, यदुच्यते भोः प्रतिमार्चनाद्भवेत् । पुण्यं न तत्सम्भवतीषदार्या, अजीवतः का फलसिद्धिरस्ति १ ॥१॥ टीका-साकारदेवार्चनविषये नास्तिकः प्रश्नयति-अथेत्यादिना 'अथे 'त्यनन्तरे, ' असौ '-पूर्वोक्तो नास्तिकः, 'आस्तिकमाख्यत्'-आस्तिकं प्रत्यकथयत् , यत् 'भोः' इत्यामन्त्रणे, 'हे आर्याः-हे श्रेष्ठाः!, 'प्रतिमार्चनात्'-प्रतिमाया: पूजनात्, 'पुण्यं भवेत् '-धर्मः सञ्जायते, 'इति'-एतत् , ' उच्यते'-कथ्यते, 'तत् ईपन्न सम्भवति'-तत्कथनस्य स्वल्पमपि सम्भवो नास्ति, प्रतिमाया अर्चनात् कथमपि पुण्यस्य संभवो न भवितुमर्हतीतिभावः, अत्र हेतुमाह-अजीवत इत्यादिना ' अजीवतः'-अजीवात् , अचेतनादित्यर्थः, ' का फलसिद्धिरस्ति'-कस्य फलस्य सिद्धिः सञ्जायते ? ॥१॥ [इतः पूर्वमवशिष्टपदेन साकम् इतिशेषः, इति पादद्वयमपि संलिखितं परन्त्वित आरभ्य ग्रन्थविस्तृतभीत्या इतिशेषः, इति पदद्वयमलिखित्वाऽवशिष्टपदमेव कोष्टके संलेखिष्यत इति विज्ञेयम् ॥] 2 20- २०
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy