SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ मूलम् - यावत्त्वनाकारपदार्थचिन्ता - कृतौ मनो न क्षममस्ति तद्वैत् । सुसाध्वसाधुप्रतिपत्तियोग्यो, ज्ञानोदयो यावदहो भवेन्नो ॥ ३१ ॥ तावत्स्वकीयव्यवहाररक्षा, कार्या कुलीनेन सनिश्चयेन | सनिश्चयः सव्यवहार एवं, निन्द्यो गृहस्थो न परैर्यतो भवेत् ॥ ३२ ॥ टीका -- गृहस्थकर्त्तव्यमेवाह - यावदित्यादिना ' यावत् ' - यत् कालपर्यन्तम्, 'अनाकारपदार्थचिन्ताकृतौ ' - आंकाररहितपदार्थ ध्याननिमित्तं, ' मनः ' - मानसं, ' क्षमं ' - समर्थम्, 'नास्ति ' - न भवति, ' तद्वत् ' - तथा, ' सुसाध्वसाधुप्रतिप्रत्तियोग्यः ' - अयं सुसाधुरयं चाऽसाधुरिति विनिश्चयाय, अहो 'ज्ञानोदय: ' - बोधस्योदयः, ' यावत् ' - यत्कालपर्यन्तम्, 'अहो ' इति चरणपूर्वावामंत्रणे वा, ' नो भवेत् ' - नैव स्यात्, ' तावत् ' - तत्कालपर्यन्तम्, 'कुलीनेन ' - सुकुलवता गृहस्थेनेतिभावः, १. सिद्धे ध्यानं अर्हमित्याद्यक्षरं वा । २. तथा । ३. कथम्भूतो गृहस्थः सनिश्चयो निश्चयनयध्यायी पुनः कीदृग् सव्यवहारो व्यवहारनयकर्त्ताऽत्राऽयंभावः, गृहस्थेन व्यवहारं कुर्वतापि एवं निश्चयवता स्थेयं मया त्वयं सर्वो व्यवहारः साध्यते परं यदा भावधर्म उदयं समेष्यति ध्रुवं मोक्षो भावी नान्यथा इति निश्चयपरेण भाव्यं तेन व्यवहारावसरे व्यवहारं कुर्वन् निश्वयात्मकेऽवसरे च निश्चयं कुर्वन् कुलीनो गृहस्थो न निन्द्यो भवेत् अत्राऽयं भाव. । उत्तमेन कुलीनगृहस्थेन येन पुण्यकर्मणा पुण्यवज्जनेषु पूर्वजैः यशोऽर्जितं तद्विपरीतं कर्म कृत्वाऽयशो नाऽर्थनीयमिति व्यवहाररक्षा व्यवहारिणा कार्या गृहस्थेन सता मुनिधर्म सर्वोत्कृष्टं कुर्वाणः कदापि न निन्द्यो भवेदिति तत्करणे पूर्वजादधिकीभवेदिति सर्व विचार्यम् ।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy