SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ मूलम् - त्वमित्थमेवाऽऽत्मनि मानयात्र, स्थितैस्तु लङ्का न यथा निरीक्ष्यते । न स्वर्गमोक्षादिपदं तथैव, छद्मस्थपुम्भिः परिवीक्ष्यमत्रगैः ॥ १२ ॥ टीका -- तत्कथनपूर्वकसिद्धान्तमाह- त्वमित्थमित्यादिना ' इत्थमेव ' - अनयैव रीत्या, त्वम् ' आत्मनि मानय ' - आत्मविषये विचारय - स्वमन्तव्यविषये विचारणां कुर्वित्यर्थः, फलितमाह - अत्र स्थितैरित्यादिना ' यथा ' - येन प्रकारेण, 'अत्र - अस्मिन् स्थले, ' स्थितैः ' - अवस्थानं प्राप्तैर्जनैरिति शेषः, 'तु' शब्दश्चरणपूत, लङ्का 'न निरीक्ष्यते ' - न दृश्यते, ' तथैव ' - तेनैव प्रकारेण, ' अत्रगैः ' - अत्रस्थितैः, ' छद्मस्थपुम्भिः ' - छद्मस्थदशावस्थितैर्जनैः, केवलज्ञानरहितैरित्यर्थः, स्वर्गमोक्षादिपदं ' - स्वर्गमोक्षादिकं स्थानं, 'न परिवीक्ष्यं ' - न दर्शनीयम् अस्तीति शेषः ॥ १२ ॥ ' తాలాలాలాలాఆఆఆఆఆఆలోచిలో ఆల్ ఆశలాలో ఆతతా జిల్ श्रीजैनतत्त्वसारे नास्तिकस्य सकलप्रत्यक्षेऽपि कस्मिंश्चिद्वस्तुनि निजप्रत्यक्षता निरा करणोक्तिलेशः पञ्चदशोऽधिकारः ॥ ইडভ RRPRARANARARAAAARAARAARAARRAIN १. अत्रस्थितैः ।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy