SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ *ॐ*995%%* स्थाने परं सर्वमिदं हि केवली, ज्ञानेन जानाति यदेव वस्तु सत् । अतस्तदीयं वचनं प्रमाणं, यदुच्यते तेन परावबुध्यै ॥२०॥ टीका-एतेन किं भवतीत्याह-एतस्येत्यादिना 'ही'ति निश्चये, चरणपूत्तौं वा, 'एतस्य सिद्धावि 'ति-गुप्तशरीरनरशक्तिमहेशादीनां सिद्धौ सत्यामित्यर्थः, ' परोक्षसिद्धिः'-परोक्षस्य साधनम् भवति, तथा 'तत्सेधनात् '-परोक्षस्य सिद्धेः, 'स्वर्गपरेतसिद्धिः'-स्वर्गनरकयोः सिद्धिर्भवति, नास्तिकः प्राह-न दृश्यत इत्यादि 'भोः' इत्यामंत्रणे, 'नन्वि 'ति वितर्के, 'यत्'-वस्तु, ' चेष्टया' चेष्टाद्वाराऽपि, 'न दृश्यते'-नावलोक्यते, 'तद्वस्तु'-तादृग्वस्तु, 'ही'ति चरणपूत्तौं, है 'सत्'-विद्यमानम् , ' कथं '-केन प्रकारेण, ' इष्यते '-मन्यते, अस्योत्तरमाह-स्थान इत्यादिना 'स्थाने '-एतत्-पूर्वोक्तं तव कथनमुचितमस्तीत्यर्थः, 'परं'-परन्तु, 'ही 'ति निश्चये, यदेव वस्तु 'सत्'-विद्यमानमस्ति, 'इदं सर्वम् '-तत्स* कलं, 'केवली'-केवलज्ञानयुक्तः, 'ज्ञानेन'-ज्ञानद्वारा, 'जानाति'-वेत्ति, 'अतः'-अस्मात् कारणात् , ' तेन'-केव लिना, ' परावबुध्यै '-अपरज्ञानाय, ' यदुच्यते '-यत् किंचित् कथ्यते, तत् सर्वम् , ' तदीयं वचनम् '-केवलिनः कथनं, 'प्रमाणं '-प्रमाणरूपमस्ति ॥ १९-२० ॥ मूलम्-त्वं पश्य लोकेऽपि जनैर्न चान्यै-यज्ज्ञायते तत्किल दृश्यतेऽलम् । नैमित्तिकैरेव यथोपरागो, ग्रहोदयो गर्भघनागमादि ॥ २१ ॥ १. ग्रहणं । २. मेघवृष्टयादि । R-51ॐॐॐS
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy