SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ SSSSSSSSSAS15 निर्धर्षणच्छेदुनतापताडनोत्पन्नं ज्ञानं, ' तदर्थसत्याय'-स्वर्णादिपदार्थसत्यत्वविनिश्चयाय, भवति, न केवलाक्षमिति - केवलं नेत्रोत्पन्नं ज्ञानं स्वर्णादिवस्तुसत्यत्वविनिश्चयाय न भवतीतिभावः ॥ १३ ॥ मूलम्-माणिक्यमुख्येषु पदार्थराशिषु, समाक्षविंद्रत्नपरीक्षिकातः। तथापि तेषामधिकोनवक्रयो, निगद्यते रत्नपरीक्षकैः किम् ? ॥१४॥ सर्वेषु सर्वाणि समानि खानि, तदा कथं भिन्नविभिन्नवक्रयः। परन्तु कश्चित्प्रतिभाविशेषो, येनोच्यते तद्गतमूल्यनिश्चयः ॥१५॥ टीका-उदाहरणांतरमाह-माणिक्येत्यादिना 'माणिक्यमुख्येयु'-माणिक्यादिषुः ‘पदार्थराशिपु'-वस्तुसमहेषु, यद्यपि ' समाक्षवित् '-समानमिन्द्रियज्ञानं भवति, ' तथापि '-वदपि, 'रत्नपरीक्षिकातः'-रत्नपरीक्षाशास्त्रात् ; 'तेपाम् - माणिक्यमुख्यानाम्, 'अधिकोनवक्रयः' अधिका-प्रभूत ऊनः-न्यूनश्च वक्रया-मूल्यम् , वष्टिभागुरिरल्लोपमवाप्योरुपसर्गरित्यकारलोपः, 'रत्नपरीक्षकै '-रत्नपरीक्षाकारकै, 'किं निगद्यते ?'-कथं कथ्यते ?, अस्यैव पुष्टिमाह-सर्वेष्वित्यादिना ' सर्वेषु'-सकलेषु रत्नपरीक्षकेषु, 'सर्वाणि"-सकलानि, 'खानि '-इंद्रियाणि,'' समानि'-तुल्यानि सन्ति, १. माणिक्यमुख्येषु रत्नपरीक्षावेदिनां यद्यपि पञ्चेन्दियाणामपि विषयो वर्तते तथापि रत्नपरीक्षकैः सर्वेन्द्रियाकारसाम्येऽपि न्यूनमधिकं वा मूल्यं तत्र केनाय विशेषः क्रियते । एतदेवाह । २. रत्नपरीक्षिका रत्नपरीक्षाशास्त्रं तस्याः सकाशात् । ३. मूल्यं ।।४. माणिक्य। - - - -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy