SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ टीका-नास्तिकं प्रति प्रश्नयति-पुरातनमित्यादिना ' अथे 'ति वित, 'इंद्रियाणां'-श्रोत्रादीनां, 'पुरातनम् !- प्राचीनम् ज्ञानम् , स्त्रियां स्त्रीज्ञानम् , शंखे सितज्ञानम् , बंधुषु बंधुज्ञानम्, इति रूपं ज्ञानमितिभावः, 'सत्यं '-यथार्थम्, तथा 'प्रमाणं'-प्रमाणरूपमस्ति, 'तथा वे 'ति यद्वेत्यर्थः, 'आधुनिक'-सांप्रतिकम् पुरुषे स्त्रीगृहणरूपम् , शंखेऽनेकवर्णग्रहणरूपम् , बंधुष्वबांधवत्वग्रहणरूपमित्यर्थः, किन्तु 'पुरातनम् '-प्राचीनम् ज्ञानम् , 'सत्'-सुंदरमस्तीत्युक्ते आस्तिक आह-तान्येवेत्यादि 'इह'-उदाहृतपुरुषे, 'खानि'-इन्द्रियाणि, 'तान्येव'-पूर्वाण्येव, सन्ति, 'तु'-तर्हि, 'को विशेषः१" इति विशेषः कथं भवतीतिभावः ॥ ८॥ मूलम्-पूर्व मनोऽभूदविकारि यस्मात् , तत्साम्प्रतं यद्विकृतं बभूव । अतो मिथो भेद इयान् स कस्य, भेदोऽस्त्ययं मानसिकस्तदत्र ॥९॥ दृश्यं मनो नास्ति न वर्णतो वा, कीम् निवेद्यं भवतीति भण्यताम् । न दृश्यते चेन्नहि वर्तते तत्, खान्येव तानीह कथं विकारः १ ॥१०॥ साम्प्रतिकं पुरुषे स्त्रीग्रहणं पीतत्वप्राप्तशाङ्खशङ्खत्वेन ग्रहणं, मत्तस्य मात्रादिषु स्वैरिन्द्रियैरैव भार्यात्वेन ग्रहणमेव स्वामिनि | सेवकत्वेन ग्रहणमित्यादि मिथ्यारूपं तत्सत्यं इति पृष्टे नास्तिकः प्राह-नेदं वरं आधुनिकं ज्ञानं यदुक्तं तत्सत्यं न, किन्तु पुरातनमेव तेषां तद्वस्तुनि तद्ग्रहणलक्षण ज्ञानं तदेव सत्य अथैषां इन्द्रियाणाम् सत्यासत्यज्ञानाङ्गीकारः कथं क्रियते इति पृष्टो। नास्तिकः प्राह .पूर्वमिति ॥
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy