________________
मूलम् - येनात्र जन्मे व्रतमुग्रमाश्रितं, प्रागेव तस्मात्प्रतिबद्धमायुः ।
नृदेवपश्वादिभवोत्थमल्पं, तदा ततोऽन्यत्र भवेद्भवेऽस्य तत् ॥ ४७ ॥ दीर्घायुषा भोज्यमहो महत्फलं द्रव्यादिसामग्र्यतयोदयाच्च । यथाऽत्र केनाऽपि च वस्तु किञ्चित्त्रातं प्रगे मे भवितेत्यवेत्य ॥ ४८ ॥ द्रव्यादिकालादितथाविधौजसा - त्यर्थ तु तद्वस्तु न तेन तत्र । दिने प्रभुक्तं हि ततोऽन्यदा तद्भोक्तव्यमेतादृगिदं तु कर्म ॥ ४९ ॥ टीका- चतुर्थभेदस्योदाहरणमभिधातुकाम आह- येनात्रेत्यादि ' येन ' -जनेन, ' अत्र जन्मे ' - अस्मिन् भवे, 'उग्र'तीक्ष्णं, ' व्रतम्' 'आश्रितम् ' - अवलम्बितम्, कृतमिति यावत्, 'तस्मात् ' - उग्रव्रताश्रयणात्, ' प्रागेव ' - पूर्वमेव, 'नृदेवपश्वादिभवोत्थम् ' - मनुष्यदेवतिर्यग्जन्मोत्पन्नम् ' प्रतिबद्धम् ' - बंधनं नीतम्, 'अल्पं ' - स्तोकम् ' आयुः '- जीवन - काल:, ' अस्य ' - कृतोग्रव्रतस्य, 'तत् ' - तस्मात्, ' अन्यत्रभवे ' - अन्यस्मिन् जन्मनि भवति, तदा ' - तस्मिन् अन्यत्र भव इत्यर्थः, 'अहो ! ' - इति विस्मये, 'तत्' - तस्मात् कारणात्, कृतोग्रव्रतप्रभावादित्यर्थः, 'च' - पुनः, सामय्यतथोदयात् ' - द्रव्यक्षेत्र कालभावरूप सामग्री समवायस्य तथाविधोदयवशात्, 'दीर्घायुषा - महता जीवनकालेन सह, ' महत् फलं ' - बृहत्फलं, ' भाज्यम् ' - भोगार्हम् भवति एतदेवोदाहरणेन स्पष्टयति - यथात्रेत्यादिना ' यथा ' - येन प्रकारेण, १. परत्र कृतं कर्म परत्र यदूवेद्यते तत् सर्वमिदमुक्तम् ।
काले,
'द्रव्यादि