SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ CorrentNoRUAR शब्दश्चरणपूर्ती, 'इह'-अस्मिन्नेव संसारे, ' उदयेत् '-उदयं गच्छेत् , उत्पूर्वस्यायतेः कदाचित्परस्मैपदत्वमपि भवति, , अस्यैवोदाहरणमाह-अहो इत्यादिना 'अहो' इति विस्मये, चरणपूत्तौं वा, 'यथा'-येन प्रकारेण, 'इह भुवि'-अस्मिन् । संसारे, 'सिद्धाय '-सिद्धपुरुषाय, 'साधुजनाय '-सत्पुरुषाय, 'वा'-अथवा, 'भूभृते'-राज्ञे, ' स्वल्पमपि '-स्तोकमपि, 'प्रदत्तं'-वितीर्णम् , वस्तु, 'श्रियै '-लक्ष्म्यै, सम्पत्कारणाय भवतीतिभावः, पुनरिति व्यतिरेकदर्शने 'चौर्यादि'-स्तेया- * दिकम् , ' अशस्तम् '-अशुभं कर्म, 'अत्र'-अस्मिन्संसारे, 'नाशकृत् '-नाशकारकम् भवति ॥ ४०-४१॥ मूलम्-भेदो द्वितीयोऽत्रंकृतं परत्र, कर्मोदयेदत्र यथा प्रशस्यम् । तपोव्रताद्याचरितं सुरत्वा-दिदं तदन्यन्नरकादिदायि ॥ ४२॥ टीका-कर्मणो द्वितीयं भेदं दर्शयितुमाह-भेद इत्यादि 'द्वितीयो भेदः '-द्वितीयोऽयं भेदोऽस्तीत्यर्थः, यत्, 'अत्र'-अस्मिन् संसारे, 'कृतं'-विहितं कर्म, 'परत्र'-परलोके, 'उदयेत् '-उदयं गच्छेत् , परस्मैपदभावे हेतुः पूर्वश्लोके निगदितः, अस्योदाहरणमाह-अत्रेत्यादिना 'यथा '-येन प्रकारेण, 'अत्र'-अस्मिन् संसारे, 'आचरितं '-कृतं, 'तपोव्रतादि'-तपश्चर्याव्रतादिकं, 'प्रशस्यं '-शुभं कर्म, 'सुरत्वादिदं '-देवत्वादिप्रदायकं भवति, तदन्यत्'-तस्माद् भिन्न, तपोव्रतादिप्रशस्यकर्मणो भिन्नमशुभं कर्मेत्यर्थः, ' नरकादिदायि'-नरकादिप्रदायकम् भवति ॥ ४२ ॥ १-२. कर्म। ISO98156562819
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy