SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ माना ' - असवं कुर्वन्ती सती, 'सुखिता' - सुखयुक्ता, 'अथे 'ति समुच्चये, 'दुःखिता ' - दुःखयुक्ता भवति, दृष्टते योजनामाहएवमित्यादिना ' एवम् ' - अनया रीत्या, ' तु ' - शब्दचरणपूत्त, कर्माण्यपि, 'यदि 'ति निश्वये, अव्ययानामनेकार्थत्वात्'देहिनम् ' - आत्मानं, ' दुःखं ' -क्लेशं, 'वा' - अथवा, 'सुखं ' - सौख्यं, 'अभिनयन्ति ' - प्रापयन्ति, कथंभूतानि कर्माणि ! 'दुष्टशिष्टानि ' - शुभाशुभानि पुनः कथंभूतानि ? ' अनीरकाण्येव ' - प्रेरकर हितान्येव पुनः कथंभूतानि ? ' निजात्मगानि ' - स्वात्मनि स्थितानि पुनश्च कथंभूतानि । ' स्वं कालमाप्य प्रकटीभवन्ति एवं समयं प्राप्य प्रादुर्भावं प्राप्नुवन्ति सन्ति ॥ २३-२४ ॥ " मूलम् - यद्वातुरः कोऽप्यर्गदान् किलाऽऽहरन्, जानाति नासावहितान् हितानथ । तदीयपाकस्य गते तु काले, सुखं तथा दुःखमयं लभेत ॥ २५ ॥ कर्माण्यपीत्थं पुनरेष आत्मा, गृह्णन् न जानाति शुभाशुभानि । यदा तु तेषां परिपाककाल - स्तदा सुखी दुःखयुतोऽथवा स्वयम् ॥ २६ ॥ टीका -- दृष्टान्तरमभिधातुकाम आह- यद्वेत्यादि ' यद्वा ' - अथवा, ' कोऽपि ' - कश्चित्, ' आतुरः ' - रोगी, 'किले 'ति निश्रये, ' अगदान् आहरन् ' - औषधानि सेवमानो भवति, तत् ' असौ ' - आतुरः, ' अहितान् ' - अहितकारकान् ' अथे 'ति समुच्चये, ' हितान् ' - हितकारकान् ' न जानाति न वेत्ति, ' तदीयविपाकस्य तु काले गते ' - तद्विपाकस्य तु समये १. औषधानि । २. जनः । ३ आहारको जनः कश्चित् ।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy