SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सपि - निगोदजीवानामपि, 'ईक्ष्यं दृष्टव्यम्, ज्ञातव्यमितिभावः ॥ ३१-३३ ॥ मूलम् - तथातिसङ्कीर्णकपञ्जरस्थिताः, विद्वेषभाजश्चटकादिपक्षिणः । जालादिगा वा तिमयो मिथोभव- द्विबाधनद्वेषचिताः सुदुःखिनः ॥ ३४ ॥ टीका - कर्मबंधत्वे दृष्टान्तरमभिधातुकाम आह् - तथेत्यादिना ' तथा ' - तेनैव प्रकारेण, 'अतिसंकीर्ण कपञ्जरस्थिताः 'अत्यंत संकीर्णतायुक्ते पञ्जरे स्थिताः, 'चटकादिपक्षिणः '- कलविकादिविहंगमाः, 'विद्वेपभाजः ' - वैरयुक्ता भवन्ति, 'वा' - अथवा, ' जालादिगा '- जालादिबंधनं प्राप्ताः, ' तिमय: ' - मत्स्यविशेषाः, 'मिथोभवद्विबाधनद्वेपचिताः - परस्परं भवद्यद्विबाधनं - पीडनं तेन यो द्वेपः- चैरं तेन चिंतायुक्ताः, 'सुदुःखिनः ' - अतिशयेन दुःखिता भवन्ति ॥ ३४ ॥ मूलम् - तथा पुनस्तस्करके निहन्य-माने च सत्यामनले विशन्त्याम् । ॥ ३५ ॥ ॥ कौतूहलार्थ परिपश्यतां नृणां द्वेपं विनोत्तिष्ठति कर्मसञ्चयः बुधास्तमाहुः किल सामुदायिकं, भोगो यदीयो नियतोऽप्यनेकशः । एवं हि चेत्कौतुकतः कृतानां, स्वकर्मणामत्र सुदुर्विपाकः अन्योऽन्यबाधोत्थविरोधजन्मना - मनन्तजीवैः कृतकर्मणां तदा । भोगोऽप्यनन्तेऽपगते हि काले, निगोदजीवैर्न हि जातु पूर्यते ॥ ३७ ॥ १. वन्धः । ३६ ॥
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy