SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ । निगोदजीवा अनन्तकालं यावत् दुःखिनो भवेयुस्ताहर कर्मबन्धनं च कुर्वन्तीत्याह त्रयोदशश्लोकैमूलम्-साधो ! निगोदाङ्गभृतोऽतिदुःखिताः, स्युः कर्मणा केन निगद्यतामिदम् । इमं विना केवलिनं न कश्चि-द्विज्ञोऽपि विज्ञातुमलं विचारम् ॥ २५ ॥ तथापि च प्रत्ययहेतवेऽदा, निगद्यते किश्चन कर्मजातम् । यद्यप्यमी अब निगोदजीवाः, स्थूलासवान्सेवितुमक्षमा हि ॥ २६ ॥ परन्त्वमी एकतनुं श्रिता य-त्तिष्ठन्त्यनन्ताः प्रतिजन्तुविद्धाः।। पृथक्पृथग्देहगृहप्रमुक्ताः, परस्परद्वेषकरात्मसंस्थाः ॥२७॥ अत्यन्तसङ्कीर्णनिवासलाभा-दन्योन्यसम्बदनिकाच्यवराः।। प्रत्येकमप्येष्वभिवर्तमान-मनन्तजीवैस्तत उग्रवैरम् ॥२८॥ टीका-इदानीं निगोदजीवदुःखहेतुविषये प्रश्नयति साधो ! इत्यादिना ' हे साधो !' हे निग्रंथ ', 'निगोदाङ्गभृतः'निगोदजीवाः, 'केन कर्मणा'-केन कार्येण, 'अतिदुःखिताः '-अतिक्लेशयुक्ताः, 'स्यु:'-भवन्ति, 'इदम् '-एतत् , 'निगद्यताम् '-कथ्यताम् भवता, अस्योत्तरमभिधातुकाम आह-इममित्यादि यद्यपि 'इमं '-पूर्वोक्तं, 'विचार-विमर्श, १. कर्मप्रकारम् । २. प्रत्येकत्वाभावात् भिन्नभिन्नशरीररूपगृहरहिता । ३. परस्परद्वेषकारणात्मना तैजसकार्मणाख्येन संस्था संस्थितियेषां ते । ४. एकमेकं प्रत्यात्मनात्मानं संविध्य २ एकीभूय तिष्ठति । 5555551SANS
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy