SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मूलम् — एवं निगोदासुमतां परस्परा-श्लेषेऽस्ति तेषामतिबाधनं सदा । तथाऽपि चान्यस्य न वस्तुनोऽस्ति, संकीर्णता नैव विहायसश्च ॥ १७ ॥ टीका - दृष्टान्तं दाष्टन्ते घटयति - एवमित्यादिना ' एवम् ' -उक्तरीत्या, 'निगोदासुमतां' - निगोदजीवानां, 'परस्पराश्लेषे 'मिथः संश्लेषे सति यद्यपि, ' तेषां ' - निगोदजीवानां, 'सदा' -सर्वदा, 'अतिबाधनम् ' - अतिपीडनम् ' अस्ति - भवति, ' तथापि ' - तदपि, 'च' शब्दचरणपूर्ती, 'अन्यस्य वस्तुनः - भिन्नस्य पदार्थस्य, निगोदजीवेभ्योऽन्यपदार्थस्येतिभावः, अतिबाधनम् ' नास्ति ' - न भवति, ' च ' - पुनः, विहायस: ' - आकाशस्य, ' संकीर्णता ' - संकीर्णत्वम् नैव भवति ॥ १७॥ मूलम् - यथाऽत्र गन्धादिकवस्तुसत्ता ज्ञेया नसा नैव दशाभिदृश्या । • एवं निगोदात्मभृतोऽपि जैन - वाक्याद्विबोध्या मनसा न वीक्ष्याः ॥ १८ ॥ टीका- निगोदजीवादर्शनविषय आह-यथाऽत्रेत्यादि ' यथा ' - येन प्रकारेण, 'अत्र' - अस्मिन् संसारे, ' गन्धादिकवस्तुसत्ता' - गन्धादिकपदार्थस्य भावः, 'नसा' - नासिकया, 'ज्ञेया' - ज्ञातुं योग्या भवति, किन्तु 'इशा' - नेत्रेण, 'नैवाभिदृश्या' - न दर्शनीया अस्ति, ' एवम् ' -उक्तप्रकारेण, 'निगोदात्मभृतोऽपि ' - निगोदजीवा अपि 'जैनवाक्यात् ' - जिनवचनात्, मनसा ' - मानसेन, 'विबोध्या: ' - ज्ञेयाः सन्ति किन्तु ' वीक्ष्याः '- नेत्रेण दर्शनीया न सन्ति ॥ १८ ॥ मूलम् - ते केवलज्ञानवता हि दृश्याः, यथा हि सर्वत्र रजोऽतिसूक्ष्मम् । ܐ उड्डीयमानं न च दृश्यतेऽक्ष्णा, न चापि राशी भवनेऽपि बोध्यम् ॥ १९ ॥
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy