________________
-
-
-
-
मूलम्-दृष्टान्तदाष्टान्तिकतेयमात्मना, संयोजनीया समभावभाविना ।
एवं च सूक्ष्मा गुरवश्व पण्डितै-दृश्यास्तु दृष्टान्तगणाः स्वबुद्धितः॥ १३ ॥ टीका-फलितमाह-दृष्टान्तेत्यादिना 'समभावभाविना '-समत्वविचारकर्ता जनेन, 'इयं'-पूर्वोक्ता, दृष्टान्तदार्शन्तिकता'-दृष्टान्तदा तिकसंगतिः, 'आत्मना'-स्वयं, 'संयोजनीया'-विनियोज्या, ' एवं चे 'ति-उक्तरीत्यैवेत्यर्थः, ॐ 'सूक्ष्माः '-अगुरवा, 'च'-पुन:, 'गुरवः'-महान्तः, 'दृष्टान्तगणा:'-दृष्टान्तसमूहाः, 'तु'-शब्दश्वरणपूत्तौ, 'पण्डितै'विद्वद्भिा, ' स्वबुद्धितः'-निजप्रज्ञयैव, ' दृश्याः'-ज्ञातव्याः, विचारणीया इतिभावः ॥ १३ ॥
निगोदजीवानां अदृष्टतां सप्तश्लोकैराहमूलम्-दक्षाः ! निगोदासुभृतः समस्तं, संव्याप्य लोकं सततं स्थिताश्चेत् ।
ते केन नायान्ति हशा पथं यके, धनीभवन्तोऽपि न बाधयन्ति ॥१४॥ टीका-निगोदजीवदर्शनविपये प्रश्नमाह-दक्षा इत्यादिना 'हे दक्षाः !' हे चतुराः!, 'चेत् '-यदि, 'निगोदा-12 सुभृतः'-निगोदजीवाः, ' सततं '-निरन्तरं, ' समस्तं लोकं '-सर्वसंसारं, 'संव्याप्य'-व्यापूर्य, 'स्थिताः'-तिष्ठन्ति, तर्हि, 'ते'-निगोदजीवाः, 'केन'-कारणेन, 'दृशः पथम्'-नेत्रस्य मार्गम् , असति समासे दृशः पथमिति चिन्त्यपदम् , 'नायांति'- 18 नागच्छन्ति, 'केन'-कारणेन, न दृश्यंत इतिभावः, 'यके'-ये च, 'घनीभवन्तोऽपि'-धनीभावं प्राप्नुवन्तोऽपि, 'न | बाधयन्ति'-न बाधन्ते, स्वार्थे णिच् प्रत्ययो बोध्यः ॥ १४ ॥
।