________________
-
टीका-फलितमाह-इत्थमित्यादिना ' ही 'ति निश्चये, ' अहो!' इति विस्मये, ' इत्थम् '-उक्तप्रकारेण, 'सिद्धैःसिद्धिं गतः, 'परिपूरितम् '-व्याप्तम्, 'शिवक्षेत्रं '-सिद्धक्षेत्रम् , ' कदा'-कदाचित् , ' संकीर्ण'-संकीर्णतायुक्तं, 'न | भवेत'-नैव भवति, 'तथे 'ति समुच्चये, 'भोः' इत्यामंत्रणे, ' सिद्धपरंपराश्रिताः'-सिद्धपरंपराधीनाः सिद्धाः, 'साकर्य- | बाधारहिताः '-संकीर्णत्वरूपबाधया विहीना:, ' जयन्ति '-विजयिनो भवन्ति ॥ ११ ॥ श्रीजैनतत्त्वसारे एकसिद्धक्षेत्रेऽनेकसिद्धावस्थानाभिधानोक्तिलेशो नवमोऽधिकारः समाप्त
अथ दशमोऽधिकारः निगोदजीवानामनन्तकालपर्यन्तम् निगोददुःखे वसनमित्यादि त्रयोदशश्लोकैराहमूलम्-प्रश्नः पुनः पृच्छयत एष पूज्याः, निगोदजीवानधिकृत्य तद्वत् ।
निगोदजीवाश्च निगोद एव, तिष्ठन्ति केनाऽशुभकर्मणा ते ॥१॥ यत्ते हि जन्मात्ययमाचरन्ता, कर्माणि कर्तुं न लभन्ति वेलाम् ।
तत्कर्मणा केन परेतदुःखा-नन्तव्यथां तेऽनुभवन्ति दीनाः ॥२॥ १. मरणम् । २. परेता नारकास्तेषां यानि दुःखानि तेभ्योऽप्यनन्ता व्यथा येषां ते ।
-
451525152515251SALE
-
-