SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् । [द्वितीयः ताभ्यां तत्र प्रसवजरजाकुङ्कमस्यन्दलिप्ती नानावर्णच्छदनिवसना प्रैक्षि वानेयलक्ष्मीः ॥१५॥ 'तत्र' उद्याने ताभ्यां श्रीनेमिकृष्णाभ्यां 'वानेयलक्ष्मीः प्रैक्षि वने भवा वनस्येयं वा वानेयी, वानेयी चासौ लक्ष्मीश्च वानेयलक्ष्मीः , "पुंवत्कर्मधारये” (सि०३-२-५७) पुंवद्भावः । किंरूपा वानेयलक्ष्मीः ? 'ताराचारिभ्रमरनयनत्पद्मवद्दीर्घिकास्या' तारावत् कनीनिकावत् चारिणः चरणशीला भ्रमरा येषु तानि, नयनानीवाचरन्ति नयनन्ति, ताराचारिभ्रमराणि तानि च नयनन्ति पद्मानि विद्यन्ते यस्यां सा ताराचारिभ्रमरनयनत्पद्मवती, एवंविधा दीर्घिका एव आस्यं मुखं यस्याः सा, अत्रापि "पुंवत्कर्मधारये" (सि०३-२-५७) इति पद्मवत्याः पद्मवदिति पुंवद्भावः । दीर्घिका मुखं, तस्यां कमलानि लोचनानि, तेषु भ्रमराः कनीनिका इत्यर्थः । किञ्चिद् ईषद् हास्यवदाचरितानि सितानि-श्वेतानि सुमानि -कुसुमानि यस्यां सा । शुङ्गिका एव व्यक्तः स्पष्टो रागो यस्याः सा। पुन: किंभूता? 'प्रसवजरजःकुङ्कुमस्यन्दलिप्ती' प्रसवेभ्यः -पुष्पेभ्यो जायते तत् प्रसवजम् , रजः-किजल्कः तदेव कुङ्कुमस्य स्यन्दः-रसस्तेन लिप्ती-ईपल्लिप्ता । नानावर्णानि च्छदानि-दलान्येव वसनं वस्त्रं यस्याः सा । लिप्तीत्यत्र "क्तादल्पे” (सि०२-४-४५) इति ङी । अत्र रूपकोपमानपरिकरसमासोक्तयः । वानेयेति "नद्यादेरेयण” (सि०६-३-२) एयण प्रत्ययः ॥ १५ ॥ रत्याक्षिप्तो मुररिपुरथान्दोलनादौ सदेशे वीरे बन्धौ स्थितवति तथा काममुत्तिष्ठते स । वीरोत्सः सितमति यथा दृब्धहल्लीसकस्थाः श्रीसूनुस्ता निजभुजबलं गापयामास गोपीः ॥१६॥ 'अर्थ' अनन्तरं 'मुररिपुः कृष्णः 'तथा' तेन प्रकारेण 'अन्दो. लनादौ' क्रीडाविषये 'काम' अत्यर्थम् 'उत्तिष्ठते स्म' उद्यतो बभू.
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy