SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं ६३ अवलगितास्तेषु । किंविशिष्टा विशिखविसराः ? दीप्ताः । पुनः कथंभूताः ? कान्ताः-मनोज्ञाः कल्याणस्य-सुवर्णस्य पुङ्खा येषां ते । यथा शाखावलगितेषु तूणीरेषु मध्ये गुप्ता किश्चित्प्रकटा सुवर्णपुङ्खा शरावलिर्भवति तथा कुसुमेषु केसरावलिः संभाव्यते । ऋतुः प्राप्तोऽमीषामिति आर्तवानि "ऋत्वादेरण" ("ऋत्वादिभ्योऽण् ") (सि० ५-४-१२५) अण्प्रत्ययः । अत्र परिकरोत्प्रेक्षाऽनुप्रासाः ॥ ७॥ अग्रे तीक्ष्णं क्रमपृथु ततो नीलपत्रैः परीतं पुष्पव्रातं दधुरभिनवं केतकीनां कलापाः। कोशक्षिप्तं कनककपिशं पत्रपालासिपुत्री प्रख्यास्त्राणां समुदयमिवानङ्गराजस्य जिष्णोः ॥ ८॥ 'केतकीनां कलापाः' समूहा अभिनवं पुष्पनातं दधुः । किंरूपम् ? अग्रे मुखे तीक्ष्णम्, 'ततः' तदनन्तरं क्रमेण पृथु विस्तीर्ण नीलपत्रैः 'परीतं' वेष्टितम् । पुनः किंरूपम् ? उत्प्रेक्ष्यते-'जिष्णोः' जयनशीलस्य अनङ्गराजस्य पत्रपालासिपुत्रीप्रख्यात्राणाम्' पत्रपालो दीर्घाशस्त्रीपटासंज्ञकः असिपुत्री-शस्त्री तन्मुखशस्त्राणां समुदयमिव । किंरूपम् ? कोशे क्षिप्तं स्थापितं कनकवत् कपिशं-पिङ्गम् । मुखे तीक्ष्णानि क्रमेण विस्तीर्णानि नीलपत्रवेष्टितानि केतकीदलानि कामस्य पत्ररूपकोशे क्षिप्तानि मुखे तीक्ष्णानि क्रमाद्विस्तीर्णानि कनकपिञ्जराणि पत्रपालशस्त्रीमुख्यशस्त्राणीव भान्तीत्यर्थः । अत्रोप्रेक्षारूपकानुप्रासाः ॥ ८॥ मूलौ मूले सरलशिखरिस्कन्धमाश्लिष्टवत्यो मध्ये पुष्पस्तबकविनताः पौरकेषु व्रतत्यः । आमोदेनायतमधुकरश्रेणिभिः श्रीयमाणाः प्रापुः पूर्णा सशरमदनाधिज्यधन्वप्रतिष्ठाम् ॥९॥ 'पौरकेषु' बाह्यारामेषु 'व्रतत्यः' वल्यः पूर्णा 'सशरमदनाधिज्य
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy