SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १७१ दन्त्याः " इति न्यायात् "तृतीयस्तृतीयचतुर्थे” (सि० १-३-४९) स् त् , ततः संयोगः, "नां धुड्वर्गेऽन्त्योऽपदान्ते" ( सि० १-३३९) तन इति सिद्धम् । अत्रानुमानाक्षेपोदात्तरूपकाद्याः ॥३९॥ रागाम्भोधौ ललितललनाचाटुवाग्भङ्गिभिर्यः संप्लाव्येत प्रतनुगरिमा स क्षमाद्गणोऽन्यः । औनत्यं तत्तदचलगुरुश्चैष माध्यस्थ्यमीशो धत्ते येन स्फुटवसुममुं स्पष्टुमप्यक्षमास्ताः ॥४०॥ हे सखि ! स 'क्षमाभृद्गणः क्षमाभृतां ऋषीणां गणः समूहोऽ. न्यः यो 'रागाम्भोधौ' रागसमुद्रे 'ललितललनाचाटुवाग्भङ्गिभिः संप्लाव्येत' ललिताः सुकोमला ललनानां स्त्रीणां याश्चाटुरूपा वाचस्ता एव भङ्गयः कल्लोलास्तैः (ताभिः) सं सामस्त्येन प्लाव्येत स क्षमाभृद्गणोऽन्यः परः, किंरूपः ? 'प्रतनुगरिमा' प्रतनुः तुच्छः गरिमा गुरुत्वं यस्य सः, एतावता यः साधुगणः स्त्रीणां चाटुवचनभिद्यते स तुच्छधर्मस्थैर्यादिगुणगौरववान, अयं नेमिस्तन्मध्ये न भवतीत्यर्थः । अथ सख्योऽन्यतुच्छसाधुविलक्षणं भगवतः स्वरूपमाहुः—'च' अन्यत् एषः 'ईशः' स्वामी ततः सर्वलोकप्रसिद्धं 'औन्नत्यं परमध्यानधैर्यादिगुणोच्छ्रितत्वं तत् 'माध्यस्थ्यं च रागद्वेपरहितत्वं धत्ते। किंरूपो भगवान् ? 'अचलगुरुः' अचला ये ब्रह्मत्रतादिपालने धीरास्तेषां गुरुः । 'येन' औन्नत्येन माध्यस्थ्येन च 'ताः' ललितललनाचाटुवाग्भङ्गयः 'अमुं' भगवन्तं स्पष्टुमपि 'अक्षमाः' असमर्थाः, एतावता ताभिर्भेदनमस्य दूरेऽस्तु ताः स्त्रीचाटुवाचो मनस्यपि नायान्तीत्यर्थः । किंविशिष्टममुम् ? 'स्फुटवसुं' स्फुटतेज. सम् । अथ द्वितीयः श्लिष्टोऽर्थः-यः क्षमाभृतां पर्वतानां गणः समूहः समुद्रकल्लोलैराप्लाव्यते आब्रियते स प्रतनुगरिमा तुच्छोन्नतत्वः अन्यः, यस्य शिखरोपरि कल्लोला वहित्वा यान्ति सोऽन्य इतरः, एष भगवान् 'अचलगुरुः, अचलानां पर्वतानां गुरुः मेरुः,
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy