SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ वर्ग: ।] श्रीमन्मेरुतुङ्गसूरिविरचितं १६७ इतीति किम् ? 'जीवितेन:' प्राणनाथो यावज्जीवं 'प्रेम्णा' स्नेहेन 'अमृतमपि' पानीयमपि मम 'शयेन' हस्तेन पास्यति, किंविशिष्टः ? 'मदुपहितहत् ' मयि उपहितं न्यस्तं हृत् हृदयं येनासौ । पुनः 'प्रव्रज्यायाः ' दीक्षाया मुखेन 'तत्' अमृतम् अभिलषन् सन् माम् अमुचत्, अमृतं स्यादयाचितम् दीक्षाधारिणो हि अयाचितव्रता भवन्ति । 'अर्थ' अनन्तरं त्वं 'ज्ञानश्रीयुक्' ज्ञानलक्ष्मीयुक्तः सन् 'तां' दीक्षान्मुच्य 'तत्' अमृतं कमिता अमृतं मोक्षं कमिता अभिल षिष्यसि (पिता), अथो दीक्षायाः फलं मोक्षं कामयिष्य से इत्यर्थः । यद्यपि "मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः” इति वचनात् भगवतो मोक्षं प्रत्यपि कामो नास्ति तथापि मोक्षं प्रति प्रवृत्तत्वा कामो विवक्षितः | 'तत्' तस्मात्कारणात् ते तुभ्यं नमोऽस्तु, अत्रेर्ष्यायां नमः, ईर्ष्याऽपि अनवस्थितत्वाभासज्ञापनात् । अत्र यथासङ्ख्यभाविकपर्यायोक्तदीपकव्याजस्तुतिश्लेषाद्याः । अमृतं पानीयमयाचितव्रतं मोक्षश्चेति श्लेषमूलम् ॥ ३५ ॥ कार्य्योत्पादात्खजनवदनेऽतानि वर्णस्य तुल्यं कृत्यं चाशाव्रततिनिकरोत्कर्तनान्नाथ ! नाम्नः । अर्थादर्थान्तरमभियता द्राग्यथा चान्वयस्था सत्कर्मेभप्रमथसमये कारि मा मातुरित्थम् || ३६ | हे नाथ ! त्वया स्वजनवदने कार्योत्पादात् वर्णस्य तुल्यं कृत्यमतानि, कृष्णस्य भावः कार्ण्य कालिमा स्वजनमुखे तद् उत्पादयता यादृशो निजो वर्णः शरीरसत्कः कृष्णरूपस्तस्य 'तुल्यं' समान ' कृत्यं' कार्य अतानि विस्तारयामासे, एवावता स्वजनमुखानि दुःखेन कृष्णवर्णानि कृतानीत्यर्थः । 'च' अन्यत् हे नाथ ! यथा त्वया आशाव्रतति निकरोत्कर्त्तनात् नान्नस्तुल्यं कृत्यमतानि । अत्र संदेशकथनप्रसक्तत्वात् राजीमती स्वाः एवाशाः विवक्षते, अहं नाथं परिणेष्यामि भोगान् भोक्ष्ये पट्टराज्ञी भविष्यामि इति आशा वा
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy