SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १५८ जैनमेघदूतम् । [चतुर्थः व्यवमाना पञ्चभद्रत्वमुद्रा यस्य सः, यो भंद्राणां समुद्रः एतावता सर्वभद्राणां स्थानं भवति तस्य पञ्च भद्राणि कथं गलन्तीति विरोधः। अथ विरोधपरिहारमाह-त्वं भद्राम्भोनिधिरपि गलत्पश्चभद्रत्वमुद्रः, पञ्चभद्रस्तु विप्लुतव्यसनीत्यर्थः,तस्य भावः पञ्चभद्रत्वं व्यसनित्वम्, गलन्ती पञ्चभद्रत्वमुद्रा यस्य सः, एतावता त्वं व्यसनी न वर्तसे निर्विकारोऽसीत्यर्थः । 'अर्थ' अनन्तरं यदि तव सर्वत्रैषा पुरोभागितैव युक्ता, "दोषैकदृक् पुरोभागी" ( अभिधान० ३-४४) यो गुणान्मुक्त्वा केवलं परस्य दोषानेव पश्यति स पुरोभागी कथ्यते, अतस्त्वमपि स्त्रीषु गुणान्मुक्त्वा केवलान् दोषानेव पश्यसीत्यर्थः, अथवा तव सर्वत्र पुरोभागितैव अप्रेसरतैव युक्ता तदपि 'वे' निश्चितं 'सूरतानां कृपालूनां 'शीर्षच्छेचाः' वधाही अपि 'अवध्याः' अघात्याः । अयमर्थः-यद्यपि सदोषत्वेन दण्डयोग्याः स्मः तदापि दयालूनां वध्या न भवामः किन्तु अनुकम्प्या एव । पौने इति पुंसां समूहः पौनम् "प्राग्वतः स्त्रीपुंसानन" (सि० ६-१-२५) सप्रत्ययः, "वृद्धिः खरेष्वादिः” (सि. ७-४-१) वृद्धिः पौं, "पदस्य" (सि० २-१-८९)सलोपः, "शिड्ढेऽनुस्वारः” (सि० १-३-४०) अनुस्वारः । शीर्षच्छेदमर्हन्ति शीर्षच्छेद्याः "शीर्षच्छेदाद् यो वा" ( सि. ६-४-१६४) यप्रत्ययः, "अवर्णेवर्णस्य” (सि. ७-४-६८) जवर्णस्य लोपः । अत्र विरोधश्लेषाद्याः ॥ २७ ॥ कामः कामं विषमविशिखैरेष जेनीयते यत् यद्वा मन्युः परिभवभवो मां सपत्राकरोति । निर्वीराऽसौ तदहमवलासासहिः पापतिश्चेत् निश्चैतन्यानवतिपुरुषी खातिकांसाचदा किम् ॥२८॥ हे नाथ! यद् एष कामः 'काम' अत्यर्थ 'विषमविशिखैः'
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy