SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२८ जैनमेघदूतम् । [तृतीयः बध्यते इति चारबन्धम् “आधारात्” (सि० ५-४-६८) इति सूत्रेण णम्प्रत्ययः । अत्र जातिपरिकरोपमाद्याः ॥ ४४ ॥ यानत्याजं सपदि पितरावग्रतोऽथास्य भूत्वा वर्षा बाष्पप्लवविगलनात पौनरुक्त्यं नयन्तौ । इत्यूचाते चिरमतमहाजात ! कस्मादकमा दसादश्माऽऽस्फलिततटिनीपूरवत्त्वं निवृत्तः ॥४५॥ 'अर्थ' अनन्तरं पितरौ 'सपदि' तत्कालं 'यानत्याज' यानं त्यक्त्वाऽस्य अग्रतो भूत्वा इति 'ऊचाते' अवदताम् । किंकुर्वन्तौ ? बाष्पप्लवविगलनात् वर्षाः 'पौनरुत्तथं पुनरुक्तभावं 'नयन्तौ' प्रापयन्तौ, बाष्पाणि अश्रूणि तेषां प्लवः पूरः तस्य विगलनं क्षरणं तस्मात् , अप्रेऽपि वर्षासु घना वर्षन्तः सन्ति तदा पितरावपि अश्रुप्रवाहवर्षितुं लग्नौ इति वर्षाकालस्य पौनरुत्यम् । इतीति किम् ? 'हे जात!' हे पुत्र! त्वं कस्मात् हेतोः 'अकस्मात् सहसैव अस्मात् 'चिरमतमहात्' चिराभीष्टपाणिग्रहणमहोत्सवात् निवृत्तः ?, किंवत्? 'अश्माऽऽस्फलिततटिनीपूरवत्' अश्मसु पाषाणेषु आस्फलितः प्रतिहतः तटिनीपूरो नदीपूरस्तद्वत् । अत्र यानं त्यक्त्वा यानत्यानं "द्वितीयया" (सि० ५-४-७८) इति सूत्रेण णम् । अत्रातिशयोत्यनुप्रासोपमाः ॥ ४५ ॥ तौ खिन्दानौ यदुपरिवृढो वारयित्वेयजल्पद् बन्धो सिन्धो! विनयपयसामाश्रितान् प्राक् प्रसत्तिम्। प्रापय्याथो दवयसि कुतः शुक्छिखादह्यमानान् नासंभाव्यं किमपि यदि वा ब्रह्मपर्यायसक्ते ॥ ४६ ।। 'यदुपरिवृढः' श्रीकृष्णः 'तो' प्रभोः पितरौ 'खिन्दानी' खेदं धरन्ती वारयित्वा इति अजल्पत्-हे बन्धो! हे विनयपयसां 'सिन्धो' ! समुद्र ! त्वं आश्रितान् 'प्राक्' पूर्व 'प्रसत्ति' प्रसाद 'प्रापथ्य' लम्भयित्वा 'अथो अनन्तरं कुतः कारणात् 'दवयसि
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy